SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwws प्रकाशाभिधविवृतौ अध्या० १, सू० १२। १३७ गुण-दोषयोः सामान्येन लक्षणमाह रसस्योत्कर्षाऽपकर्षहेतू गुण-दोषौ, भक्त्या शब्दाऽर्थयोः ॥ १२॥ रसो वक्ष्यमाणस्वरूपः, तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु सत्ताया दोषस्यासत्तायाश्च न ज्ञानमसंभवीति ग्राह्यापरिचये ग्रहणस्येव हेयापरिचये हानस्याप्यशक्यत्वमिति तयोः स्वरूपनिर्णयोऽवसरप्राप्तः, अतस्तन्निरूपणपरसूत्र भूमिकामारचयति-गुणदोषयोरित्यादिना। तत्र यद्यपि सूत्रे "भदोषौ सगुणौ” इत्युक्ततया पूर्व दोषस्वरूपनिरूपणमेवावश्यकं क्रमानुरोधात् , तथा च दोषगुणयोरिति वक्तव्ये व्यत्यासेन गुणदोषयोरित्युक्तिनॊचिता, तथापि गुणस्य रससमनियतत्वेनात्यादरभूमितया संग्राह्यतया च प्रथमोद्देशः, दोषस्य हेयतया पश्चानिर्देशः; गुणश्च दोषश्च गुण-दोषाविति द्वन्द्वेऽभ्यर्हितस्य गुणस्य पूर्वप्रयोगः, तयोः सामान्येन लक्षणमिति सामान्यतोऽज्ञाते विशेषजिज्ञासाया अनुदयेन पूर्व सामान्यरूपेण ज्ञानमावश्यकमित्यल्पेन प्रयासेन सकलगुण-दोषपरिचयाय सामान्यलक्षणमेव व्यापकमिति सामान्येन गुणत्वेन दोषत्वेन च गुण-दोषयोलक्षण-स्वरूपपरिचयम् , आह कथयति-रसस्येत्यादिसूत्रेण । सूत्रं व्याख्याति–रसो वक्ष्यमाणस्वरूप इति-यद्यपि रस्यते-आस्वाद्यते इति व्युत्पत्त्या योगार्थप्रतीतिर्भवति तथाऽपि विशिष्य स्वशास्त्रसंकेतितस्य रसस्य स्वरूपं वक्ष्यमाणमेवेति बोध्यम् , अत्र चोक्तव्युत्पत्त्या रसपदेन रसभाव-रसाभास-भावाभासादीनां ग्रहणम् , सर्वेषामपि रस्यमानताऽनतिरेकात् । तस्य रसस्य, उत्कर्षहेतवः उत्कर्षः-अनुभवसिद्धश्चित्तद्रुत्यादिकार्यविशेषप्रयोजकत्वस्वरूपो धर्मविशेषः, तस्य हेतुः-कारणभूतो गुणः, अपकर्षो-न्यूनता, चित्तद्रुत्यादिकार्यविशेषप्रतिबन्धकत्वरूपो धर्मों वा तस्य हेतुर्दोष इति, द्वन्द्वान्ते श्रूयमाणतया हेतुपदस्य प्रत्येकं सम्बन्धः, तथा च रसोत्कर्षकारणत्वे सति रसाव्यभिचारिस्थितित्वम् , अव्यभिचारेण रसोपकारकत्वं वा गुणवं, रसप्रतीतिविघातकत्वं च दोषत्वमिति फलति; अलङ्कारास्तु रसव्यभिचारिस्थितयो नियमेन रसोपकारकत्वाभाववन्तश्चेति न तेषु गुणलक्षणसंक्रान्तिः । ते च रसस्यैव धर्मा इति-सूत्रे 'भक्त्या शब्दार्थयोः' इति वाक्येन तयो रसैकधर्मत्वं For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy