SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ सालङ्कारचूडामणी काव्यानुशासने Mw इत्यादिना काव्यप्रकाशे "तत्र निजान्त्याक्रान्ता भटवर्गा वर्गा हस्तान्तरितो र-णावसमासो मृदुरचना च" [अ० १, सू० ४] इत्यादिना काव्यानुशासने च वक्ष्यमाणं वर्णघटनादि गृह्यते, तेन नीरसेऽव्याप्तिरपि नेति बोध्यम् । एतेन "गुणानां रसनिष्ठत्वेन सगुणावित्यस्य शब्दार्थविशेषणत्वमप्यनुपपन्नम्, न च शब्दार्थयोः साक्षाद्गुणवत्त्वाभावेऽपि स्वाश्रयरसाभिव्यञ्जकत्वरूपपरम्परासम्बन्धेन गुणवत्वादुपपद्यते सगुणत्वमित्यपि वाच्यम्, एतादृशपरम्परासम्बन्धेन तदाश्रयता-[गुणाश्रयता] कल्पनापेक्षया सरसावित्यस्यैव वक्तुमौचित्यात् , गुणवत्त्वान्यथानुपपत्तिलभ्यतया तथा नोच्यत इत्यपि न युक्तम् , प्राणिमन्तो देशा इति वक्तव्ये शौर्यादिमन्तो देशा इतिवदेवंकथनस्यानादर्तव्यत्वात् , गुणाभिव्यञ्जको शब्दार्थों काव्ये प्रयोज्याविति सूचनाय सगुणाविति विशेषणोपादानमित्यपि न वक्तव्यम् , तयोः काव्यस्वरूपसम्पादनसामग्रीबहिर्भावात् , तौ हि उत्कर्षसम्पादकाविति तादृशवस्तुनः स्वरूपघटकतया प्रवेशानौचित्यात्" इति परास्तम् , मधुरः शब्दो मधुरोऽर्थ इति सर्वतः प्रचलितस्य व्यवहारस्य दुरपह्नवतया, स्वव्यञ्जकतादिसम्बन्धन लक्षणया गुणगणस्य शब्दार्थयोवृत्तौ बाधकाभावात् ; तथा चोक्तं प्रदीपे-"अयं च [गुणः ] सर्वेषु रसेष्वाधेयतया सर्वासु च रचनासु व्यङ्ग्यतया स्थितः” इति, एवं च व्यञ्जकत्वसम्बन्धेन गुणवत्त्वं रचनानतिरिक्तस्य शब्दस्य तत्तादात्म्यापन्नस्य चार्थस्य सम्यगुपपन्नमेव ॥ सालङ्काराविति-वाच्यवाचकसमाश्रया ये उपमाऽनुप्रासादयोऽलङ्कारास्तत्सहितौ शब्दार्थों, इत्यर्थः । अत्र पण्डितराजजगन्नाथेनेस्थमुक्तं रसगङ्गाधरे"लक्षणे गुणालङ्कारादिनिवेशो न युक्तः, "उदितं मण्डलं विधोः" इति काव्ये दूत्यभिसारिका-विरहिण्यादिसमुदीरिते क्रमेणाभिसरणविधि-निषेध-जीवनाभावादिपरे, गतोऽस्तमः' इत्यादौ चाव्यात्यापत्तेः । न चेदमकाव्यमिति वदितुं शक्यम्, काव्यतया पराभिमतस्यापि तथा वक्तुं शक्यत्वात् , काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव, गुणत्वाऽलङ्कारस्वादेरननुगमाञ्च, दुष्टं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच; न च 'संयोगाभाववान् वृक्षः कपिसंयोगी'इतिवदंशभेदेन दोषरहित दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम् , 'मूले महीरुहो विहङ्गमसंयोगी न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसभाविनो विश्वजनीनानुभवस्य विरहादच्याप्यवृत्तिताया For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy