________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
सालङ्कारचूडामणौ काम्यानुशासने दिदेवविजयी, कैलासोत्तोलकः स्वशिरसामपि छेदकः, आज्ञानुवर्तिसकललोकः, प्रथितपराक्रमशाली च' इत्याद्यर्थेषु सङ्क्रमितवाच्यम् , 'धिक् धिक्' इति द्वित्वेन द्वित्वेन निन्दाया अतिशयः, जयतेस्ताच्छील्यक्किपा च तादृशः स्वभावः, 'ग्रामटिका' इत्यनेन तस्यानायासलुण्ठनीयता, 'भुजैः' इति बहुवचनेन लोकातिगसंख्यता चासंलक्ष्यक्रमेण ध्वन्यते; समुदायेन च निर्वेदाख्यः संचारिभावः प्रतीयत इति ध्वनित्वेनास्योत्तमकाव्यता "इदमुत्तममतिशायिनि व्यङ्गये वाच्याद् ध्वनिर्बुधैः कथितः" [का० प्र० प्र० उ० ] इति स्वीयलक्षणानुसारमेव स्वीकायति, तत्र काव्यलक्षणाघटनादव्याप्तिरिति । न चांशविशेष सत्यपि दोषे तदतिरिक्तांशस्य निर्दुष्टतया तत्र काव्यलक्षणघटनानाव्याप्तिरिति वाच्यम् , यत एवं सति यत्रांशे दोषः सोऽकाव्यत्वप्रयोजकः, यत्र च ध्वनिः स उत्तमकाव्यस्वप्रयोजक इत्युभाभ्यामंशाभ्यामाकृष्यमाणमिदं काव्यमकाव्यं वेति निर्णेतुमशक्यं स्यात् , किञ्च दोषाणां दोषत्वं हि समुदायदूषकत्वेन, नहि काव्यस्य कञ्चिदशं दूषयन्तः श्रुतिदुष्टत्वादयो दोषाः, किन्त्वविकलमेव काव्यम्, तथाहि-काव्यात्मभूतस्य रसस्यानपकर्षत्वे तेषां दोषत्वमपि नाङ्गीक्रियते, अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थाऽपि न स्यात् , ये हि सर्वदा रसापकर्षकास्ते नित्यदोषाः, यथा च्युतसंस्कारत्वादयः, श्रुतिदुष्टत्वादयो हि कतिपयशृङ्गारादिरसमानापकर्षकत्वेनानित्यादोषा इति सर्ववादिसम्मतम् , एवं चांशविशेषेऽपि दोषसत्त्वे सर्वमेव काव्यं दुष्टं स्यादित्येकस्याप्यंशस्य निर्दोषकत्वेन काव्यत्वं न स्यादिति ।
"तत्सादृश्यमभावश्च, तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च, नजाः षट् प्रकीर्तिताः ॥" इत्युक्तदिशाऽनुदरा कन्येतिवदिह नजोऽल्पार्थकत्वमिति "ईषद्दोषौ शब्दार्थों काव्यम्" इत्युक्तौ प्रोक्तपद्यस्य गुणसंख्ययाऽल्पदोषकत्वेन काव्यत्वं स्यादेवेति नोक्ताव्याप्तिदोष इति वाच्यम्, एवं च काव्यवाय दोषसत्त्वस्याप्यपेक्षितत्वेन निर्दोषयोः शब्दार्थयोः काव्यत्वं न स्यात् , सोऽयं वृद्धिमिच्छतो मूलस्यापि हानिरित्याभाणकविषयः, यदेकं संग्रहीतुं कृते प्रयत्ने शतं काव्यान्यकाव्यतामा. पद्यन्ते । न च "सति संभवे ईषद्दोषौ शब्दार्थों काव्यम्" इति वाच्यम् , रत्नलक्षणे क्रियमाणे प्रखरप्रभादिगुणविशिष्टमहामूल्यशिलाखण्डमित्यादिरूपमेव स्वरूपलक्षणमुच्यते, न तु कीटानुवेधरहितत्वमपि, तस्य रत्नत्वविधानाहत्वात
For Private And Personal Use Only