________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'सालङ्कारचूडामणौ काव्यानुशासने । तथा कमला-सम्पदोरक्यं यथा-- "दोर्मन्दी [न्दे ] रितमन्दरेण जलधेरुत्थापिता या स्वयं, यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयन् । तां लक्ष्मी पुरुषोत्तमः पुनरसौ लीलाश्चितभ्रूलतानिर्देशैः समवीविशत् प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥" अर्थः-अत्र ‘मन्दीरित' इत्यस्य स्थाने 'मन्देरित' इति पाठः साधुः, या लक्ष्मीः , दोभ्या-बाहुभ्यां, मन्दम्-ईषत् , ईरितः-प्रेरितः, मन्दर:-मन्थानकपर्वतो येन तथाभूतेन, जलधेः-समुद्रात् , स्वयमुत्थापिता, पुनः तां लक्ष्मीम् , असौ पुरुषोत्तमः, लीलया, अञ्चितैः-शोभितैः, भ्रूलतानिर्देशैः-वल्लीचलनैरेव, प्रणयिनांस्वभक्तानामथ च प्रेमिणां, गेहेषु समवीविशत्-निवेशयामास, एवं यां भुवम् , कमठ:-कच्छपो भूत्वा, पुराणेन-प्राचीनेन, ककुदेन-वृषस्कन्धोपरिभागेन, न्यस्तां-क्षिप्ताम् , पृथ्वी पूर्व वृषस्कन्धोपरिस्थिता, ततः पतिता कच्छपावतारेण धारितेति पौराणिकी कथाऽत्रानुसंधेया, उदस्तम्भयत्-उत्थापयामास, पुनः तां क्षिति-पृथ्वी, प्रणयिनां दोष्णि-बाहौ समवीविशत् । अत्र लक्ष्मी-सम्पदोरैक्यं निबद्धम्, नहि समुद्रोत्थिता मूर्तिमती स्वप्रिया तेन प्रणयिगेहे निवेशिता, अपितु सम्पत्स्वरूपैवेति तयोरैक्यं स्पष्टमेवेह ॥ नाग-सर्पयोरक्यं यथा"हे नागराज ! बहुमस्य नितम्बभाग, भोगेन गाढमभिवेष्टय मन्दरादेः । सोढाविषह्यवृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः॥"
[का० मी० अ-१६] अर्थः-हे नागराज !-वासुके !, अस्य मन्दरादेः बहुं-विस्तीर्ण नितम्बः भाग-कटिपश्चात्प्रदेशम् , भोगेन-फणदेशेन, गाढं-दृढम् , अभिवेष्टय, सोढः, अविषह्यः-अन्यैरसहनीयः, वृषवाहनस्य-शिवस्य, योगलीलायां-योगक्रीडायां, पर्यङ्कस्य-आसनस्य, बन्धनविधिः-स्थिरीकरणकृत्यं येन तस्य, तव, अयं कः, अतिभारः-विशेषायाससाध्यं कार्यम् , तादृशे कार्ये कृतात्मयोगस्य तवायं नियोगसुकर एवेति भावः ॥ अत्र मन्दराचलबन्धनभूतस्य नागस्य शिवपरिकरस्य सर्पस्य चैक्यं प्रतिपादितमिति ॥
For Private And Personal Use Only