________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०१०।
९९
संभवदपि कोकिलरुतं वसन्त एव, मयूराणां वर्षाखेव विरुतं नृत्तं चेति । ___ अर्थः-मेघवत् इयामेन-कृष्णवर्णेन, रामेण, पूता-पवित्रीकृता, वेदिः-मध्यस्थितोच्चभूमिर्यस्य सः, विमानराट-पुष्पकम् , मध्ये-मध्यस्थितेन, महेन्द्रनीलेनमहता इन्द्रनीलमणिना, रत्नराशिः-रत्नसमूह इव, भावभौ-शुशुभे । भत्र महाईरवैर्निर्मितस्य पुष्पकस्य मध्ये रामचन्द्रस्य रत्नसमूहमध्यस्थितस्य महेन्द्रनीलमणेरिव शोभाऽभवदिति भावः । सामान्येन मेघोपादाने तद्वत् श्यामत्वमित्यर्थस्य वाच्यत्वे मेधानां श्यामतैवेति नियम आश्रितः ॥
क्रमप्राप्तं क्रियाया नियममाह-क्रियाया यथेति । ग्रीष्मवर्षाद्यन्यर्तुषु सम्भवदपि सम्यक् प्रकारेण भवदपि, अथवा संभाव्यमानमपि, कोकिलरुतं कोकिलानां कूजनव्यापारः, वसन्त एव निबध्यते, नान्यस्मिभृताविति । मयूराणामन्येध्वपि समयेषु संभवत्, विरुतं केकाशब्दः, नृत्तं गात्रसंचालनविशेषः, वर्षास्वेव निबध्यते । तत्र प्रथमो यथा
"वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः॥"
[का० मी० म०-१४] अर्थ:-शीतभीतेन-शीतसमये भीत्या रुतमकुर्वता, कोकिलेन, वसन्ते प्राप्ते सति, रुतं-कूजितम्, ततश्च अन्तर्जलगताः-जलमध्ये लीनाः, पद्माः-कमलानि श्रियश्च, श्रोतुकामा इव-किमयं वदतीति ज्ञातुमुत्कण्ठिता इव, उत्थिताःनिर्गताः । वसन्ते कोकिलरुतस्येव पद्मानामपि विकासस्य प्रसिद्धिः, शीतकाले पमानि शीतेन नश्यन्ति, सति वसन्ते तेषां पुनरुत्पत्तिः । अत्र पद्मशब्दस्य पुंसि प्रयोगः, “वा पुंसि पद्मं नलिनम्" इति कोशानुसृतोऽपि कविभिरप्रयुक्तत्वाद् दोषाधायक इति साहित्यदर्पणादिषु निर्णीतम्, तथापि 'पद्मा' इत्यनेन श्री-कमलयोः श्लेषस्येष्टत्वेन श्रोतुकामा हवेत्युत्प्रेक्षापोषकत्वेन च न दोष इति स्वीकार्यम् ॥ मयूरनृत्य-गीते वर्षास्त्रेव यथा
"मण्डलीकृत्य बोणि कण्ठैर्मधुरगीतिभिः ।। ___कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥"
[दण्डिनः का० द०प० १.श्लो-७० ]
For Private And Personal Use Only