SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ कान्यानुशासने वृत्तिः-व्यापारः, अथ च वयं मध्येक्षीराब्धि-क्षीरसमुद्रमध्ये स्फुट-प्रत्यक्षतया मनाःस्मः, अयमीदृक् प्रकारोऽवस्थाविशेषः कः?' इत्थं,मृगाक्ष्यः-मृगनेत्रसमाननेत्राः स्त्रियो विस्मयन्ते-विस्मययुक्ता भवन्ति । कवी राजानं वर्णयमाह-दिग्भ्यो बहिरपि गन्तुं कामयमानानि त्वद्यशांसि, दिग्भित्तिभिः कविकल्पिताभी रुद्धानि, ततश्च तडागादिषु रुद्धं पयस्तत्र यथा बहुलीभवति तथाऽन्न निजगति समन्ताद् व्याप्तानि तत् क्षीरपूर्णमिव सर्व चक्रुरिति तत्र वसन्त्यो नार्य मात्मानं क्षीरसमुद्र मनमथ च जलादी मन्नस्य या स्थितिः-शरीरे आर्दीभावः, श्वासरोधः, चक्षुर्व्यापारशून्यता, तेषामभावं च दृष्ट्वा पूर्वानुभूतभिन्नोऽयं कश्चित् प्रकार इति विस्मययुक्ता भवन्तीति । अत्र च यशसः शौक्ल्यं स्पष्टमेवोपनिबद्धम् ॥ हासस्य शौक्लयं यथा"अट्टहासच्छलेनास्याद्, यस्य फेनौघपाण्डुराः। जगत्क्षय इवापीताः, क्षरन्ति क्षीरसागराः ॥” [का० मी० म ० १५] अर्थः यस्य आस्यात् , जगत्क्षये पीताः फेनौघपाण्डुराः-फेनसमूहशुभ्राः क्षीरसागराः, अट्टहासच्छलेन-उच्चहासव्याजेन, क्षरन्तीव-निःसरन्तीव इत्युत्प्रेक्षा । अत्र प्रलये समस्तं जगद् ग्रसितवतो विराट्रपुरुषस्य रुद्रस्य वा अट्टहासोऽतिधवलतया वर्णनीय इति तत्र पीतक्षीरसागरनिःसरणोत्प्रेक्षा ॥ अयशसः कार्य यथा"प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥" [का० मी० अ० १५] अर्थः-ते कीर्तयः, तव रिपूणां चाकीर्तयो युगपत् , कुवलयदलसंवलिता मालतीमाला इव प्रतिदिशं प्रसरन्ति । वर्णनीयस्य राज्ञः कीर्तयः शुभ्रा मालतीपुष्पाणीव, तद्रचितमालायां मध्ये मध्ये तच्छत्रुदुर्यशोरूपनीलवर्णकुवलयदलानि मिश्रितानि, तानि च सहैव प्रतिदिशं यान्तीत्यर्थः । तथा चायशसः कृष्णता स्फुटमुपनिबद्धा ॥ पापस्य कृष्णता यथा "उत्खातनिर्मलकृपाणमयूखलेखा श्यामायिता तनुरभूद् दशकन्धरस्य । सद्यः प्रकोपकृतकेशववंशनाशसंकल्पसंजनितपापमलीमसेव ॥"[का० मी० भ० १५] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy