________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७६
सालङ्कारचूडामणी काव्यानुशासने
तथा च परोक्तयोऽप्यर्थान्तरं संक्रमय्योपजीव्या इत्यवसितम् । इदमत्र विचार्यते - परकविप्रयुक्तशब्दार्थहणरूपमुपजीवनमत्रोपदिष्टम्, तच्च नोपदेश्यम्, यदित्थं कथयन्ति --
“पुंसः कालातिपातेन चौर्यमन्यद् विशीर्यते । अपि पुत्रेषु पौत्रेषु वाक्चौर्य न विशीर्यते ॥” [
]
.
अन्यत् - धनादिकर्मकं चौर्यम्, कालातिपातेन - कियति काले गते, विशीर्यतेविलुप्यते, वाक्चौर्यं तु शब्दार्थहरणरूपं चौर्य तु पुत्रेषु पौत्रेषु सत्सु - इयति महति कालेऽतिक्रान्ते, चौर्यकर्तुरभावेऽपि तदीयपुत्रपौत्राद्येष्वपि न विशीर्यते-न विलुप्यते, किन्तु जनाः कथयन्त्येव - अस्य पित्रा पितामहेन वा विख्यातस्य तस्य कवेर्वाग हृता - आत्मीयत्वेनोपनिबद्धेति । एतादृशमकीर्तिकरं कर्म कथमुपदेष्टमईमिति । तदिदमभिसन्धायैव वृत्तावुक्तं यथौचित्यमिति येन पथा चौयँ न विभाव्येत तथेति च तदाशयः । हरणं कुत्र भवतीत्येतद्विषये राजशेखरेण मतमिदमुपन्यस्तम् - "अयमप्रसिद्धः प्रसिद्धिमानहम् ; अयमप्रतिष्ठः प्रतिष्ठावानहम् ; अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम; गुडूचीवचनोऽयं मृहीकावचनोऽहम् ; अनादृतभाषाविशेषोऽयम्, आहतभाषाविशेषोऽहम् ; प्रशान्तज्ञातृकमिदम्, देशान्तरकर्तृकमिदम् उत्सन्ननिबन्धनमूलमिदम् म्लेच्छितकोपनिबन्धनमूलमिदम् इत्येवमादिभिः कारणैः शब्दहरणेऽर्थहरणे वाऽभिरमेत” “इत्यवन्तिसुन्दरी" इति । [ का० मी० अ० ११]
wwwww
"
wwwwwwww
www.ww
अयमर्थः -यस्य काव्यमनुक्रियेत हियेत वा सोऽप्रसिद्ध:, हर्ता चात्मानं प्रसिद्धं मन्येत तदाहरेत्, तथा सति कर्तुः प्रसिद्ध्यभावाचार्य छन्नं भवति एवं पूर्वपरयोश्प्रतिष्ठितत्व-प्रतिष्टितत्वयोः प्रतिष्ठितेन कृतं चौर्य गोपयितुं योग्यम्, यस्य च कर्म [ काव्यादि ] लोकेषु न प्रक्रान्तं स्यात्, स्वकीयं च शीघ्रमेव प्रक्रान्तं क्रियेतेत्यस्यामवस्थायामपि चौर्यं गोप्येत; तेन यदि स एवाऽर्थः कठोरया वाचा विरसया वोक्तः स्यात्, तर्हि तस्य सरसया वाचा हरणे चौर्यगोपनसंभवः; पूर्वकर्तुरपेक्षया स्वस्य भाषाविशेषविज्ञत्वेऽपि भाषान्तरेण हरणं छाद्यते । किञ्च अस्य ज्ञाता प्रशान्त इति हरणेऽपि को जानाति पूर्वस्यायं नास्येति; तथा देशान्तरस्थस्य कवेः काव्यस्य हरणेऽपि छाद्येत चौर्यम्; इदं च काव्यं कस्य कुत्र वा निबद्धमित्यज्ञातेऽपि हरणमावियेत अस्य काव्यस्योपनिबन्धनकारणं लोकैम्लेच्छ
For Private And Personal Use Only