SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir (मलय०)-'धुवबंधीण'ति । याः शुभध्रुवबन्धिन्यः प्रकृतयस्तैजससप्तकशुभवर्णायेकादशकागुरुलघुनिर्माणरूपा विंशतिप्रकृतयः | तासां शुभस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्टं प्रदेशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमानन्तरं शीघ्रतरं क्षपणायोद्यतस्येति वक्तव्यम् । शेषं तथैव । तथा तीर्थकरनाम्नो गुणितकाशेन देशोनपूर्वकोटिद्विकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्धन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धे. नोपचितस्य खबन्धव्यवच्छेदसमये उत्कृष्टं प्रदेशसत्कर्म ॥३७॥ (उ०)-शुभानां ध्रुवबन्धिनीनां तैजससप्तकशुभवर्णाद्येकादशकागुरुलघुनिर्माणरूपाणां विंशतिसंख्यानां शुभस्थिरयोश्च पूर्वोक्तेन २ प्रकारेणोत्कृष्ट प्रदशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं क्षपणाय समुद्यतस्येति वक्तव्यं,शेषं तथैव । तथा तीर्थकरनाम्नो गुणितकर्माशेन त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटिद्वयाधिकानि यावदिति पूरयित्वा व्याख्येयम् । बन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य-देशोनपूर्वकोटिं यावद्भूयो भूयो बन्धेनोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्ट प्रदेशसत्कर्म ॥३७॥ तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोया। विगलसुहमतिया वि य नरतिरियचिरज्जिया होंति ॥३८॥ (०)-'तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोय'त्ति-नपुंसगवेदेण तुल्लाणि एगेंदियजाति थावरणामं आतवनामं उज्जोवं ईसाणदेवस्स चरिमसमते उक्कोसं पदेससंतं भवति। 'विगलसुहुमतिया वि यत्ति-विगलजातितो विगलतिगा वुचंति, सुहुमअपजत्तगसाहारणाणि सुहुमतिगं बुचंति । 'नरतिरियचिरज्जिय'त्ति-मणुयतिरिएहि Sama TODAY For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy