SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * *** ****OXOXOXOX कल्याणं गर्भधारणम् ॥ २९॥ x जिनराज्याभिषेकस्तु, नास्ति कल्याणपञ्चके । गर्भधारणकल्याण-मस्ति x“उसमे णं अरहा कोसलिए पंचउत्तरासाढे अभीइछडे होत्था, तं जहा-उत्तरासादाहिं चुए, चइत्ता गर्भ वक्रते, उत्तरासादाहिं जाए, उत्तरासाढाहिं| |रायाभिसेयं पत्तो, उत्तरासादाहिं मुंडे भवित्ता आगाराओ अणगारियं पब्वइए, उत्तरासादाहिं अणंते जाव (केवलवरनाणदसणे)समुप्पण्णे, अभीणा परिनिन्बुए" इति जम्बूद्वीपप्रज्ञप्तिसूत्रं पुरस्कृत्य वीरस्य गर्भापहारद्वारा जातं त्रिशलाकुक्षिगर्भाधानमकल्याणकत्वेन प्रतिपादयन्ति ये, तैर्विचार्यमेतत् पद्यं । यतः-प्रानिर्दिष्टजम्बूद्वीपप्रज्ञप्तिस्त्रे “पंचउत्तरासाढे" इलादिपाठे सत्यपि यथा कल्पसूत्रे "चउउत्तरासाढे" इति पाठः समुपलभ्यते, न तथा वीरचरित्रवर्णने क्वाप्याचाराङ्ग स्थानाप्रभृतिषु | शास्त्रेषु “पंचहत्धुत्तरे" इत्यादिपाठवत् 'चउहत्थुत्तरे" इत्यपि पाठः समुपलभ्यते । | अन्यच्च "तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत्ससम्ममा उपतिष्टन्ते" इति शान्तिचन्द्रीयजम्बू प्रवृत्तिगतं कल्याणकलक्षगं नात्यन्तिक, तदेवात्यन्तिक-यत्सर्वदा सर्वत्रावन्ध्यं, भवेदावन्तिकमेतलक्षणं चेत्तदा वीरस्य देवानन्दाकुक्षिगर्भाधाने कथं नोपतस्थुः सुरेन्द्रादयः ।। ननु किं प्रमाण ? यौवोपतस्थुः सुरेन्द्रादयो भगवतो देवानन्दाकुक्षिगर्भाधानकाले इति चेत्कल्पसिद्धान्त एवं प्रमाणमत्रार्थे, तथाहि-"ते णं काले णं ते णं समए णं सके देविंदे देवराया" इत्यादितः प्रारभ्य “समणे भगवं महावीरे xxx आसोअबहुलस्स तेरसीपक्खे गं बासीइराइंदिपहिं बिइक्कतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा xxx तिसलाए खत्तिआणीए Ox कुच्छिसि गब्भत्ताए साहरिए" इत्यादिपाठेन स्फुटतर|मवगम्यते; यद् द्वयशीतिदिवसास्यय एव ज्ञातं शक्रेण श्रीमन्महावीरदेवस्य देवानन्दाकुक्ष्यवतरण, नार्वाक् । ज्ञातभवनानन्तरमेव हि ससम्भ्रममभ्युत्थाय सप्ताष्टपदान्यभिमुखं गत्वा भावतः शक्रसवेन वन्दित्वा सिंहासने समुपविश्य विमृश्य चैतादृशे कुलेऽहंदादीनामनागमनादिकमविलम्बेनैव हरिणैगमेषिद्वारा गर्भपरिवर्तनस्य कारितत्वात् । न हीयद्दीर्घकालीनो ब्यशीतिदिवसात्मकः सम्भवति खल्पबुद्धिमनुजस्यापि विमर्षणकालः, कथं नाम शकस्य । अतो नायमकल्याणकवादिनिर्वर्तितं कल्याणकलक्षणमाल्यन्तिकमवन्ध्यमपि च, किन्तु 'तदेव हि कल्याणक-यद्धयने आश्चर्यभूतं कल्याणफलं च भवति जगजीवाना' |मित्येतदेव हि कल्याणकलक्षणमाल्यन्तिकमवन्ध्यमपि च । न चैतदनागमिकं, यदुक्तं श्रीमद्धरिभद्रसूरिभिर्यात्रापञ्चाशके-"भुवणऽच्छेरयभूआ, कल्लाणफला व जीवाणं ॥३०॥" इति । एवमेवैतगाथाशकलव्याख्यायां श्रीमत्सुविहितग्रामण्यः खरतरगच्छगगनाजणदिनमणयो नवाज्ञवृत्तिविधायकाः परमगुरवः श्रीमदभयदेवसूरयो “भुवनाबर्यभूतानि For Private and Personal Use Only
SR No.020433
Book TitleKalyanak Paramarsh
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherJinduttsuri Gyanbhandar
Publication Year1941
Total Pages12
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy