SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४२ www.kobatirth.org जयाख्यसंहिता Acharya Shri Kailassagarsuri Gyanmandir ददाति मर्त्यलोकेऽस्मिन्दुर्लभानि सदैव हि । यचैवं ........माद्यैस्तु लिखितं धारयेद्गले ॥ १४ ॥ पद्म... सप्रयोगेण प्रजपन्मन्त्रनायकम् । तस्य सर्वार्थसिध्यर्थं सर्वस्मिन्निधिवस्तुनि ।। १५ ।। इत्येतत्कौस्तुभस्योक्तं मालामन्त्रस्य कथ्यते । [ ५.३० [ मालामन्त्रसाधनम् ] अथ स्वनामवर्णस्य क्रमाच्च ....लय (यरल ?) त्रयम् ॥ १६ ॥ पूर्वोपकरणेनैव युक्तमङ्गगणं तनौ । न्यस्य कृत्वा तु हृद्यागं बहिरर्धेन्दुमण्डले ॥ १७ ॥ षट्पत्रे पुष्करे ध्यात्वा संपूज्य जुहुयात्ततः । वनराजं समासाद्य लक्षमेकं जपेत्ततः ॥ १८ ॥ जातिचम्पकपुष्पाणां कदम्बानां तु होमयेत् । सर्वौषधिरसाक्तानामयुतश्चायुतं क्रमात् ॥ १९ ॥ धुना केवलेनाथ जुहुयादयुतं द्विज । होमान्ते मन्त्रसिद्धिस्स्याद्दैवी लोके तु मानुषे ॥ २० ॥ कृत्वाऽभिमन्त्रितां कण्ठे पुष्पमालां च साधकः । निधायावनि संस्थायामचयामात्मनोऽथवा ॥ २१ ॥ न विमानभावत्वं यात्यसौ यावदिच्छति । करोति चार्चनं विष्णोः स्थाने पुष्पफलोज्झिते ॥। २२ ।। अकालकुसुमान्याशु तत्राकाशात्पतन्ति च । For Private and Personal Use Only पूजां (स्रजं ) कृत्वा तु तैः पुष्यैस्तान्येव यदि धारयेत् ॥ २३ ॥ उत्तमाङ्गे तु कण्ठे वा भूयो द्विशतमत्रिताम् । यायाददर्शनं मन्त्री खगतिर्वाऽथ वायुवत् ॥ २४ ॥ दिव्यगन्धवहो नित्यं दिव्याश्वर्यप्रदर्शकः । कुसुमायुधसादृश्याद्वपुषा परिदृश्यते ।। २५ ।। मालाधरस्तु वै मन्त्री अखिले ललनाकुले | मालाकारस्य वै तुष्टो यदि पुष्पवनं द्विज ।। २६ ॥ निरीक्षते जपन्मन्त्री शुष्कं तत्पुष्पितं भवेत् । 1 यचैवमादिमा A
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy