SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. २९ [कपिलस्यानुचरमन्त्राः] चतुष्कं वारुणान्तस्थं शाद्यं कृत्वा क्रमेण तु । घरेशमनलारूढं सलोकेशं चतुर्वधः ॥ ६१ ॥ विश्वाप्यायकरो व्यापी न्यस्यो शुपरि सर्वतः । योगेश्वरश्च तत्त्वज्ञो ब्रह्मदत्तो महामतिः ॥ ६२ ॥ सितरक्तारुणः कृष्णश्शान्तदेहश्चतुर्भुजः। [कपिलानुचरमूर्तिध्यानप्रकार:] ब्रह्माञ्जलिकृताः सर्वे बद्धपद्मासनस्थिताः ॥ ६३ ॥ विज्ञानसंचयाकारा ह्यक्षसूत्रकरास्तु वै । प्रभाकरसहस्राभा दिव्यमालाम्बरान्विताः ॥ ६४ ॥ दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः । [कपिलस्य शक्तिमन्त्राः ] आद्यवर्णचतुष्कं तु शान्तान्तं च लिखेत्क्रमात् ॥ ६५ ॥ अनलस्थं च सर्वेषामधः सोमं च विन्यसेत् । व्यापी चान्द्री ततो माया चतुर्थ्यन्तं नियोजयेत् ।। ६६ ॥ विमला करुणा शक्तिर्ज्ञानाख्या चेति शक्तयः । [कपिलशक्तिध्यानप्रकार:] पीतश्यामारुणाः शुक्लाः क्रमशो द्विभुजाः स्मृताः ॥ ६७ ॥ वरदाभयहस्ताश्च कपिलाकृतयस्तथा । कृत्वा न्यासं यजेत्पश्चात् वितते हृत्कुशेशये ॥ ६८॥ ततः पूर्णेन्दुसङ्काशमेकद्वारं तु वर्तुलम् । सपञ मण्डलं कृत्वा तन्मध्ये ह्यवतार्य च ॥ ६९ ॥ शेषमंगादिकं प्राग्वन्यस्य लीला(दले न्यस्य?)तदन्तरे । इष्ट्वा ब्रह्माञ्जलिं मुद्रां योगेशादिषु दर्शयेत् ॥ ७० ॥ वराभयौ तु शक्तीनां मुख्यस्थाङ्गेषु पूर्ववत् । कृत्वा होमं यथाशक्ति तिलैराज्यपरिप्लुतैः ॥ ७१ ॥ दत्वा पूर्णाहुतिं पश्चात् स्थानमासाद्य निर्जनम् । जपेल्लक्षचतुष्कं तु हृदादीनां तु नारद ॥ ७२ ।। क्रमात्सहस्रमेकैकं ततो होमं समाचरेत् । पयसा मधुमिश्रेण जुहुयादयुतद्वयम् ॥ ७३ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy