SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ जयाख्यसंहिता तेनासौ महती लोके कीर्ति प्राप्नोति नारद ॥ ८८॥ काले तु बीजरोहीये यदि देवो न वर्षति । आदाय मृत्कणं हस्ते तटाकाजलमर्दितम् ॥ ८९॥ तं मध्यस्थ यक्लिन्न (?) परिजप्य शतत्रयम् । 'कख (मुख ?) श्वासैस्तु सन्तप्तं कृत्वा मन्त्रमनुस्मरेत् ॥९० ॥ प्रक्षिपेद्गगने तद्वन्मेषत्वमुपयाति च । पूरयेन्मेदिनी सर्वी जलेन जलदस्तु सः॥९१ ॥ तदाज्ञया वसेत्तावत् तस्मिन्देशे स मेघराद् । वर्षे तदुपयोग्यं च यावत्संपद्यतेऽखिलम् ॥ ९२ ॥ तेनासौ महतीं कीर्ति प्राप्नुयाच त्रिलौकिकीम् । संपादयति विमेन्द्र यस्य यन्मनसेप्सितम् ।। ९३ ।। प्रभावान्मन्त्रराजस्य प्रसादादच्युतस्य च । लिखितं पूर्ववदध्वा वस्ने वा दक्षिणे भुजे ॥ ९४ ॥ माप्नुयान्महती वृद्धिं पूर्णा कीति सरस्वतीम् । एतत्संक्षेपतः मोक्तं कीर्तिमन्त्रस्य नारद ॥९५॥ [जयामन्त्रसाधनप्रकारः ] संविधानमपूर्व च सन्ततेरपि भूतिदम् । जयाख्यमधुना विद्धि विधानं विष्णुभाविनाम् ॥९६॥ [जयाया अङ्गमन्त्रः] आदाय शाश्वतं पोढा कृत्वा चानलगं क्रमात् । आक्रान्तं पूर्ववत्कुयोदङ्गषद्कस्य सिद्धये ॥ ९७॥ [जयायाः सखीमन्त्रः] अजितं विष्णुना युक्तं वाराहं रामवेष्टितम् । ध्यापकं केवलं चाऽथ सोमं रामसमन्वितम् ॥ ९८॥ शिरसा चिह्नयेत्माग्वञ्चतुरः क्रमशो मुने । सख्यो जयन्ती विजया तृतीया त्वपराजिता ॥ ९९ ॥ सिद्धिश्चतुर्थी विज्ञेया शृणुष्वानुचराननु । 1 भयाक्रिष्टं A2 खग A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy