SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org जयाख्यसंहिता दीक्षोपकरणादीनामभावाद्विजसत्तम । गुर्वङ्गनाप्रसक्तश्च लक्षजापाच्च शुध्यति ।। ३५ ।। [ रजस्वलास्पृष्टान्नभक्षणे प्रायश्चित्तम् ] अन्नं रजस्वलास्पृष्टं भुक्तं चेद्यदि कामतः । जस्त्वाऽस्त्रमन्त्रं साष्टं च शतं चैवाभिशुध्यति ॥ ३६ ॥ कामतत्रिगुणं चैव जपं कुर्यादतन्द्रितः । Acharya Shri Kailassagarsuri Gyanmandir [ लिङ्गमूर्तये विनियुक्तान्नस्य भक्षणे प्रायश्चित्तम् ] लिङ्गमूर्ती रुद्रस्य दत्तमश्नाति वैष्णवः ॥ ३७ ॥ तत्स्पृष्टं वा प्रमादेन सिह्मपञ्चशतं जपेत् । कामतो द्विगुणचैव स्त्रातो होमाच्च शुध्यति ॥ ३८ ॥ [ विष्णुनिवेदितस्यान्नस्यायोग्ये देशे पात्रे वा प्रक्षेपे प्रायश्चित्तम् ] विष्णोर्निवेदितं प्राप्यं निक्षिपेद्यत्र कुत्रचित् । अयोग्यस्याथ वा दद्यात्सिहस्याष्टशतं जपेत् ॥ ३९ ॥ [ आशौचान्नभक्षणे प्रायश्चित्तम् ] मृतके मुनिशार्दूलभुक्त्वा चैवाथ सूतके । कामतः सिंहमन्त्रं तु सहस्रं परिवर्तयेत् ॥ ४० ॥ अकामतस्तदर्ध वै जपेत्तन्नियतः शुचिः । [ पतिताद्यन्नभक्षणे प्रायश्चित्तम् ] · भक्तं च पतितानां तु गणिकानां च वै द्विज ॥ ४१ ॥ गणान्नमथवा मुक्तं पञ्च षट् सप्त वै शतम् । नृसिह्मकपिलकोडमन्त्राणां क्रमशो जपः ॥ ४२ ॥ [ सीमन्तादिसंस्कारान्नभक्षणे प्रायश्चित्तम् ] यः सीमन्ते प्रभुङ्क्ते तु स च नक्तागमे जपेत् । द्वे शते अनिरुद्धाख्यवीजस्य ध्यानतत्परः || ४३ ॥ नामधेयाख्यसंस्कारे प्रद्युम्नं द्विशतं जपेत् । अन्नप्राशनसंस्कारे जपेत्संकर्षणं शतम् ॥ ४४ ॥ शेषेषु वासुदेवाख्यं बीजमावर्तयेच्छतम् । [ सद्यः श्राद्धाद्यन्नभोजने प्रायश्चित्तम् ] यः पञ्चत्वं प्रयातस्य भुङ्क्ते संवत्सरावधि ॥ ४५ ॥ सद्यः श्राद्धात्समारभ्य स सिंहस्यायुतं जपेत् । For Private and Personal Use Only [ प. २५
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy