SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५. २५] प्रायश्चित्तविधिः २७७ तस्यापि नाशपायाति महापातकसञ्चयः । स्तेयं गुरुस्त्रीसंभोगः सुरापानादिकं च यत ।। २२ ।। [कामतो ब्राह्मगवधे प्रायश्चित्तम् ] कामतो ब्राह्मणं हत्वा गवां मध्यस्थितो जपेत् । अतन्द्रितः सिंहमन्त्रमनिशं वत्सरद्वयम् ॥ २३ ॥ अयाचितानलघ्वाशी त्रिस्नायी न्यासकृत्सदा । वत्सरद्वितयस्यान्ते तीर्थ वाऽऽयतनं व्रजेत् ॥ २४ ॥ ततः कुर्यातं शक्त्या कृच्छचान्द्रायणादिकम् ।। व्रतान्ते नवनाभेन दीक्षयेत्पुनरेव हि ॥ २५ ॥ सर्वस्वं च गुरोर्दद्याद्भक्तानां च तदाज्ञया । [सुरापानप्रायश्चित्तम् ] सुरां पीत्वा तु तामन्ते जपेत्सत्यमहर्निशम् ॥ २६ ॥ व्यहं त्वनश्नन्नन्ते तु कं पिबेत् सिमतापितम् ।। स्थित्वा चायतने विष्णोः सहस्रैकं जपेद्बुधः ॥ २७ ॥ [स्वर्णस्तेयादौ प्रायश्चित्तम् ] स्तेयं च कामतः कृत्वा हेमभूम्यादिकं तु वै । ज्ञात्वाऽनुतापसन्तप्तो मन्ब्रेशं कापिलं जपेत् ॥ २८ ।। पञ्चायुतप्रमाणेन विजनस्थः समाहितः । पयोमूलफलाहारः शुध्यत्यन्तेर्चने हुतौ ।। २९ ।। कामतः सन्त्यजेद्भूयो द्रव्यमेतत्समाहृतम् । द्विगुणं तदभावाच जपं पूर्वोदिताचरेत् ॥ ३० ॥ [गुरुपत्नीगमने प्रायश्चित्तम् ] सिमं गुरुस्त्रीगमने ह्यकामाज्जनवर्जिते । भैक्षाहारो जपेन्मौनी शुद्धये त्वयुतत्र(द्व?)यम् ॥ ३१ ॥ प्रख्यातौ कामतो लक्षस्सकामश्च रहस्यपि । अयुतद्वितयं साध जत्वा शुध्यति नान्यथा ॥ ३२ ॥ एकान्ते कामतो गत्वा साध चैवायुतद्वयम् । अकामतः प्रकाशे तु जप्त्वाऽयुतचतुष्टयम् ॥ ३३ ॥ अप्रकाशे प्रकाशे वा कामतोऽकामतोऽपि वा । जपान्ते यागहोमौ च कृत्वा शुध्यति नान्यथा ।। ३४ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy