SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २१] श्राद्धविधानम् पूरयित्वाऽञ्जलिं पात्रं राजतं वाऽर्थ्यसंयुतम् । नैवेघस्यापसव्येन परितः प्रक्षिपदाहिः ॥ ८०॥ नमस्कृत्य यथान्यायं क्षान्त्वा चायावसज्य च । मुद्रया सह मन्त्रेण पूर्वोद्दिष्टेन नारद ॥८१॥ पूर्ण हृदाम्भसा कृत्वा कलशं सतिलं द्विज । नैवेद्यानसमायुक्तं ब्राह्मणस्य निवेद्य च ॥८२॥ गोषु वा तदभावाच तदभावे जले क्षिपेत् । ततस्तिलोदकं दत्वा हमाम्ना तु स्वषां सह ॥ ८३॥ प्रक्षाल्य पाणिपादं तु आचम्य तदनन्तरम् ।। संहृत्य पीठन्यासं तु पूजास्थानं द्विजाम्भसा ॥ ८४ ॥ प्लावयित्वोपलिप्याऽय कृतन्यासो विशेगृहान् । पूर्ववत्कृतरक्षस्तु भुञ्जीयात् पावनं लघु ॥ ८५ ॥ तदन्ते नृहरिं ध्यायेद्यथाशक्ति तु संजपेत् । दिनान्तेऽस्त्रेण सिद्धार्थान् क्षिप्त्वा शयनमाचरेत् ।। ८६ ॥ विधानमेतदखिलमाचर्तव्यं प्रयत्नतः। [द्वितीयदिनमारभ्य यावदशमदिनं कर्तव्यविधिः] दिनानि दश मेधावी प्रेतानुग्रहकाम्यया ॥८७॥ आरभ्य शिरसो यावदस्त्रमन्त्रैस्तु नारद । अयोर्ध्वमनिरुद्धादिवासुदेवावसानकम् ॥ ८८॥ दशाहमेवं निर्व| मासे त्वेकादशे दिने । [एकादशेऽहनि कर्तव्यश्राद्धविधानम् ] श्राद्धकर्म तु वै कुयोत्संपन्ने त्वाहिके सति ॥ ८९॥ तदर्थमभ्यर्थ्य गुरुं गुरुपुत्रं तु वा द्विज । साधकं तदभावात्तु पुत्रकं सामयं तु वा ॥९॥ मागुक्तं यतिपूर्व वा वैष्णवं त्वेकमेव हि । प्रक्षाळितानि स्वाचान्तं कृत्वा तं संपवेश्य च ॥९१॥ दत्वासनं तु संस्थाप्य उत्तराभिमुखं तु तम् । पूजयेच ततो देवं शक्यङ्गावयवान्वितम् ॥ ९२ ॥ आचार्यस्य ततो विष कुर्यान्मण्डलकं शुभम् । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy