SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाझ्यसंहिता [प. १९-२. पश्यत्युग्रान्भयातोश्च क्षण मन्त्रव्रती मुने ॥ २७ ॥ क्षणं किलकिलारावं सह वहिरवं क्षणम् । क्षणं मेघोदयं पश्येत्क्षणं रात्रि दिने सति ॥ २८ ॥ राज्यां च दिवसालोकं ससूर्य क्षणमीक्षते । बलेन परिपूर्णस्तु तेजसा सूर्यवर्चसा ॥ २९ ॥ सूर्येन्दुसदृशः कान्त्या गमने पक्षिराडिव । स्वरेण युक्त उच्चेन गम्भीरेण महात्मना ॥ ३० ॥ स्वल्पाशनेन कृशता बहुना च न विद्यते । विण्मूत्रयोरथाल्पत्वं भवेनिद्राजयो महान् ।। ३१ ।। जपध्यानरतो मौनी न खेदमभिगच्छति । विना भोजनपानाभ्यां पक्षमासाधिकं तु वै ॥ ३२ ॥ इत्येवमादिभिश्चिदः स्वहृद्विस्मयकारकैः । प्रवर्तमानैर्बोद्धन्यः प्रसन्नो मम मन्त्रराट् ।। ३३ ॥ [मन्त्रसिद्धेरप्रकाश्यता ] मन्त्रप्रसादजनितं लिङ्गं न तु गुरोविना । प्रकाशनीयं विप्रेन्द्र कदाचित्सिद्धिमिच्छता ॥ ३४ ॥ प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् । करसंस्थाश्च वै तस्य सिद्धयो यान्ति दूरतः ॥ ३५ ॥ आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि । तस्मात्सर्वप्रयत्नेन सिद्धिलिङ्गानि नारद ॥ ३६॥ गोपनीयानि यत्नेन य इच्छेद्भूतिमात्मनः । इति श्रीपाश्चराने जयाख्यसंहितायां मन्त्रसिद्धिचिहाख्यं नामैकोनविंशः पटलः | अथ प्रतिष्ठाविधानं नाम विंशः पटलः । नारदः साधकानां हितार्थाय बिम्बं यदुदितं त्वया । तदहं ज्ञातुमिच्छामि कथं तत्क्रियते विभो ॥ १॥ क तस्यापि विधानेन स्थापनं कथयस्व मे । यस्य संपूजनानाथ लिङ्गान्येतानि चाप्नुयात् ॥ २ । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy