SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ जयाख्यसंहिता [५. १६ अशाठ्येन तु विप्रेन्द्र भवत्यनृणवान्गुरोः । [दीक्षान्ते वैष्णवानां भोजनादिना सन्तर्पणम् ] आचार्यों दीक्षये(यस्तोषये ?)त्पश्चाद्वैष्णवान्पाश्चरात्रिकान् ३४२ यथाथक्ति घशाठ्येन भोजनेन धनेन च । [रात्र्यतिवाहने विशेषनियमः ] गीतकर्मङ्गलैर्वाधैः स्तोत्रैः शास्त्रकथान्वितैः॥ ३४३ ॥ क्षपयित्वा ततो रात्रि त्रिरात्रं सप्त पञ्च वा । [त्रिस्थानस्थस्य भगवतो विसर्जनं विश्वक्सेनपूजनं च ] पूजया जपहोमेन दीक्षितः श्रद्धयान्वितः ॥ ३४४ ॥ पायुक्तेनैव विधिना त्रिस्थानस्थं हरि क्रमात् । विसृज्य पूजयेत्पश्चाद्विश्वक्सेनं तु पूर्ववत् ॥ ३४५ ॥ [अवभृथ सोमपानप्रकारनिरूपणम् ] कलशद्वितयं कुर्यात्मागुक्तविधिना शुभम् । मध्वाज्यक्षीरसंपूर्ण यागमेकेन सेचयेत् ॥ ३४६ ॥ द्वितीयं मूलमन्त्रेण चन्द्रमध्यगतेन च । अभिमन्व्य च संस्थाप्य सोमपानार्थमादितः ॥ ३४७ ॥ मण्डलं प्लावितं येन कलशेन द्विजोत्तम । यानारूढो गृहीत्वा तं वामहस्ततले गुरुः ॥ ३४८ ॥ पृष्ठेऽस्य दक्षिणं दद्यादत्रराजं जपेन्मुने । शिष्यैः परिवृतो यायान्मङ्गलादिपुरस्सरैः ॥ ३४९ ॥ पटहैः शङ्खशब्दैश्च पूजां निक्षिप्य चोदके । माक्षाल्य पाणिपादं तु आचम्य न्यासमाचरेत् ॥ ३५० ॥ तमानीय च संपूर्णमम्भसा यत्र नारद । पक्षिप्तयागसंलग्नपुष्पाादिकलम्भनम् ॥ ३५१ ॥ फलशाखान्तरस्थं च पुष्पलकण्ठधारिणम् । छादितं सितवस्त्रेण सर्वमन्त्राभिमन्त्रितम् ॥ ३५२ प्रविश्य यागभवनं मध्ये छुपविशेद्गुरुः । पीठन्यासपयोगेण प्रागुत्तरमुखस्ततः ॥ ३५३ ॥ 1 विश्वक्सेनपूजाद्रव्यम् For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy