SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१ प. १६] दीक्षाविधानम् ब्राह्मणादौ च वर्णानां समयीपुत्रकात्मनाम् । साधकानां गुरूणांच येभ्यो मध्यात्सुखपदान् ॥ ३२९॥ अविरुद्धांस्तथाऽक्लिष्टांस्त्रीबालानां च नारद । स्त्रीणां विशेषतो दद्यात्पतिभक्तिसमन्वितान् ।। ३३०॥ पतिशून्या च या नारी तस्या आयतने हरेः । लेपनं शोधनं दद्यात्संयमं च मिताशिताम् ॥ ३३१ ॥ पालनात्समयानां च सिद्धिरुत्पद्यतेचिरात् । मन्त्रः साम्मुख्यमभ्येति समयज्ञस्य सर्वदा ॥ ३३२ ॥ सिद्धयः समयज्ञस्य सिद्धाः स्युर्मोक्षपश्चिमाः। इत्यनावग्रतो विप्र दत्वा समयसंचयम् ॥ ३३३॥ [विष्णुहस्तप्रदानपूर्व शिष्यस्य मन्त्रहृयागाद्युपदेशः ] भूतिना तिलकं कृत्वा मण्डलाग्रं व्रजेद्गुरुः । संपूज्य तत्र मन्त्रेशं विधिवत्पूर्ववन्मुने ॥ ३३४ ॥ विष्णुहस्तं ततो दद्यान्मूर्ति पृष्ठे हृदन्तरे । आलम्भे(भेत् ?)मुद्रया सर्व मूर्ध्नः पादतलान्ततः ॥ ३३५ ॥ शिष्यमुच्चारयेन्मन्त्र न्यासहृयागपूर्वकम् । [कुम्भस्थदेवस्यार्चनम् ] मन्त्रेण विविधैर्भोगैर्यथा चावसरोदितैः ॥ ३३६ ॥ कुम्भस्थमर्चयेद्भक्त्या देववन्मन्त्रभक्तितः। [अथ गुरोः पूजनम् ] गुरुमष्टाङ्गपातेन पूजयेत्तदनन्तरम् ॥ ३३७ ॥ शिरः पादतले कृत्वा आनन्दाश्रुयुतो वदेत् । सपुत्रदारः सधनः प्रभो दासोऽस्म्यहं तव ॥ ३३८ ॥ भावोपेतं द्विज गुरोरात्मानं तु निवेदयेत् । प्रामं वा रत्ननिचयं सुवर्ण वा कृताकृतम् ॥ ३३९ ॥ हस्त्यश्वरथपादातदासीदासगणैस्सह । यद्यधयोचितं वस्तु येन वा तुष्यते गुरुः ॥ ३४० ॥ समग्रेणापि दत्तेन भवेन्नानृणता गुरोः । भक्त्या विशुद्धया युक्तः पूजितस्य फलाम्बुना ॥ ३४१ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy