SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १६] दीक्षाविधानम् १५५ वित्तयोगविमुक्तस्य स्वल्पवित्तस्य देहिनः । संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः ॥ ५॥ अनौ चाज्यान्वितै/जैः सतिलैः केवलैस्तथा । द्रव्यहीनस्य वै कुर्याद्वाचैवानुग्रहं गुरुः ॥ ६ ॥ [उपसन्नस्यावश्यं दीक्षयितव्यता] यः समः सर्वभूतेषु विरागी वीतमत्सरः। जितेन्द्रियः शुचिर्दक्षः समग्रावयवान्वितः ॥७॥ कर्मणा मनसा वाचा भीतेष्वभयदः सदा । संबुद्धिपदसमाप्तस्तत्रापि भगवन्मयः ॥ ८॥ पञ्चकालरतश्चैव पञ्चरात्रार्थवित्तथा । विष्णुतत्त्वं परिमाय एकं चानेकभेदगम् ॥९॥ दीक्षयेन्मेदिनी सर्वा किं पुनश्चोपसर्पितान् । [ एकस्यैवाच्युतस्यानेकरूपेण स्थितत्वनिर्देशः ] निराश्रयमसङ्कल्पं स्वरूपादच्युतं स्थिरम् ॥१०॥ ग्राणग्राहकधर्मेश्च निर्मुक्तमचलं ध्रुवम् । एव(क ? )मेव फले पञ्च( ? )वक्ष्ये ते नेकधा स्थितम् ॥ ११ ॥ व्याप्तव्यापकभेदेन यथावन्मुनिसत्तम । [ परसूक्ष्मस्थूलात्मना त्रिधा स्थितेषु तत्त्वेषु अच्युतस्य त्रेधा व्याप्य स्थितिः] स्थूलं सूक्ष्म परं चान्यद्वयाप्य तत्त्वत्रयं स्थितम् ॥ १२ ॥ प्रधानपुरुषेशाख्यं तथाऽन्यच्छ्रोत्रपूर्वकम् ।। व्याप्याच्युतः स्थितस्साक्षात् त्रिधा वै बुद्धिपश्चिमम् ।। १३ ॥ त्रिविधं विष्णुतत्त्वं तु एकं ज्ञात्वाऽप्यनेकधा । एकैकेन तु भेदेन कुर्यात्सर्वेष्वनुग्रहम् ॥ १४ ॥ यथानुरूपं क्रमशः समयज्ञादिषु द्विज । [मन्त्रमूर्तेर्भगवतस्त्रेधाऽवस्थानम् ] पिण्डात्मा भगवानेक उपाङ्गान्यश्च स द्विधा ॥ १५॥ त्रिविषे मनराशौ तु त्रिषा चैव व्यवस्थितः । [स्थूलसूक्ष्मपरात्मना मन्त्रराशेस्त्रैविध्यम् ] +मणेराकृष्टिमन्त्रान्तो मात्रामाणाशिरुच्यते ॥ १६॥ 1 लोभ A.CL., S. 2कम् CL. + अत्र मणिशब्देन कौस्तुभः. आकृष्टिशब्देनाङ्कशः, भूधरपाब्देन वराहो विवक्षितः । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy