SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ जयाख्यसंहिता [प. १५-१६ [निमाष्टर्युपलेपनपूर्वकं सिद्धार्थकादीनामुस्किरणम् ] सम्यक्कृत्वा निमाष्टिं वै उपलिप्याथ चोत्किरेत् ॥ २५९ ॥ सिद्धार्थकादिलाजांश्च तिलं सुमनसोऽक्षतान् । [ रक्षार्थ स्थापितयोः कवचास्त्रयोरुपसंहारः ] वर्मास्ने छुपसंहृत्य रक्षार्थ योजिते पुरा ॥ २६० ॥ [स्वविग्रहे कृतस्य न्यासस्योपसंहारः ] यागस्थानाच तिलकं कृत्वा न्यासं स्वविग्रहात । उपसंहृत्य मेधावी कुर्याद्वै भोजनादिकम् ॥ २६१ ॥ इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज । [अपात्रेऽस्य मन्त्रसन्तर्पणक्रमस्यावाच्यत्वकथनम् ] वाच्यं नादीक्षितानां च नाभक्तानां कदाचन ॥ २६२ ॥ नान्यदर्शनसंस्थानां नोपहासरतात्मनाम् । [पात्रे वक्तव्यता] सद्भावझे तु वक्तव्यं समयज्ञेऽथ पुत्रके ॥ २६३ ॥ साधके तु गुरोवापि भक्ते स्निग्धे विमत्सरे सत्यधर्मपरे वापि साचारे समयस्थिते ॥ २६४ ॥ इति श्रीपञ्चरात्रे जयाख्यसंहितायामाग्निकार्यविधानं नाम पञ्चदशः पटलः । अथ दीक्षाविधानं नाम षोडशः पटलः नारदःश्रोतुमिच्छामि भगवन्दीक्षालक्षणमुत्तमम् । समयिनः पुत्रकस्य साधकाचार्ययोस्तथा ॥ १ ॥ नैष्ठिकानां तथा स्त्रीणां शिशूनां भावितात्मनाम् । विस्तरेण समाख्याहि यदि सानुग्रहोऽसि मे ॥२॥ श्रीमगवान् - शृणु दीक्षा प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवामिगुरुपूजासु अधिकारो यथा(या ? )भवेत् ॥ ३ ॥ सिद्धये मुक्तये चैव तां वक्ष्यामि त्रिधा यथा । [आढ्यानाढ्यभेदेन दीक्षाप्रकारे मेदः] महामण्डलयागेन वित्ताख्यानां तु कारयेत् ॥ ४॥ 1 समाधिनः S. समधीनः Y. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy