SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. १४ ] www.kobatirth.org जपविधानम् सकळे तु यथेच्छा वै सूत्रार्थं मणिगोळकाः (?) युगळं युगळं सूत्रे परस्परमुखं द्विज || २३ || पृष्ठ पृष्ठस्य लग्नं वा यथा स्याद्योजयेत्तथा । सन्धाय चातिसुश्लिष्टं गहनं न भवेद्यथा ॥ २४ ॥ [ अक्षसूत्रस्य वलयाकारतापादनम् ] परस्परमणीनां तु प्रोतानां मुनिसत्तम । अव्युच्छिन्नेन तेनैव त्वेकेन प्रोततन्तुना ।। २५ ।। मणिभ्यां सङ्गमोद्देशात्सूत्रं सूत्रेण वेष्टयेत् । यथा स्यात्कटकाकारं स्तब्धं वृत्तं विभक्तिमत् ॥ २६ ॥ [ अक्षसूत्रे मेरुकल्पनम् ] Acharya Shri Kailassagarsuri Gyanmandir ग्रन्धिसन्धावतो विप्र मणिसख्याधिकं ततः । मेरुं प्रकल्पयेन्मध्ये एकेन गुळिकेन च ॥ २७ ॥ [ अक्षसूत्र संशोधनावधानम् ] विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे । संपूज्य पुष्पधूपाद्यैस्तस्य शुद्धिमथाचरेत् ।। २८ ।। दग्धमस्त्रेण संचिन्त्य वर्मणा मारुतेरितम् आप्लाव्य मूलमन्त्रेण परमामृतरूपिणा ॥ २९ ॥ संशोध्यैवं पूरा सूत्रं देहवच्चिन्तयेत्ततः । [ अक्षसूत्रस्य दिव्यदेहत्वेन चिन्तनम् ] चतुर्भुजं तु विरजो नारायणमिवापरम् ॥ ३० ॥ वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् । ब्रह्मद्वारस्थितं तच्च सूत्रं ध्यायेच्छिखोपमम् ॥ ३१ ॥ स्वमन्त्रेण द्विजश्रेष्ठ मन्त्रमत्र निबोधतु । [ अक्षसूत्रमन्त्रः ] प्रोद्धरेत्मणवं पूर्व तदन्ते कौस्तुभं न्यसेत् ॥ ३२ ॥ त्रैलोक्यैश्वर्यदोपेतं गोपनेनाङ्कयेच्च तत् । तदन्ते त्वक्षत्राय पदं पश्चाक्षरं न्यसेत् ॥ ३३ ॥ नमस्कारान्वितः प्रोक्तो ह्यक्षसूत्रस्य मन्त्रराट् । [ स्वमन्त्रेणाक्षसूत्रस्य सकलीकरणपूजने ] सकळीकरणं कुर्यान्मन्त्रेणानेन तस्य वै ॥ ३४ ॥ For Private and Personal Use Only १२७
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy