SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता यक्षाणां यक्षिणीनां च साधने वपुजं स्मृतम् । राक्षसानां पिशाचानां वशे सीसमयं तु वै ॥ १० ॥ पाताळसाधनार्थ तु अरीतिमयमुच्यते । सपन्नगानां नागानां साधने स्यात्तु कांस्यजम् ॥ ११ ॥ कनीयस्तु तदा कुर्यादायसं क्षुद्रकर्मणि । इति धातुमयानां च सूत्राणां विषयः स्मृताः ॥ १२ ॥ वक्ष्ये मणिमयानां च विभागं मुनिसत्तम । सर्व मणिमयं चैव आयुरारोग्यभूतिदम् ॥ १३ ॥ मोक्षदं तु विशेषेण स्फाटिकं शान्तिकर्मणि । त्रितयं चोत्तमाद्यं यत्समं सर्वेषु कर्मसु ॥ १४ ॥ मूलजानामथो वक्ष्ये बीजानां विधिमुत्तमम् । सौभाग्ये वैद्रुमं कार्यमुत्तमायं सदा त्रयम् ॥ १५ ॥ मुक्त्यर्थं पुत्र दीप्तैस्तु पुष्पषैर्दोप्रशान्तये । वक्ष्ये जलोत्थितानां च विषयं सर्वसिद्धिदम् ॥ १६ ॥ पद्मवीजैr शाय श्रीकामो जपमारभेत् । आयुःप्रज्ञायशरशान्तौ मौक्तिकं सर्वसिद्धिदम् ॥ १७ ॥ उत्तमादिविभागेन त्रितयं यत्प्रकीर्तितम् । एभ्यो मध्यादेकतमं ग्राह्यं चैव शुभे दिने ॥ १८ ॥ [ मणीनां क्षालनप्रकारः ] सात्रेण गन्धतोयेन क्षाळयेतदनन्तरम् । [प. १४ For Private and Personal Use Only [ सूत्रविशेषविधानम् ] शाणं कार्पासकं वाऽथ प्राप्य सूत्रं नवं दृढम् ॥ १९ ॥ त्रिगुणं त्रिगुणीकृत्य चतुर्थी वा यथा दृढम् । सुवेष्टितं तु वै कृत्वा क्षाळयेत्पूर्ववद्विज ॥ २० ॥ [ सूत्रे मणीनां योजनप्रकारः ] निक्षेप्या मणयस्तस्मिन्सन्धानक्रमयुक्तितः । मणयस्सुसमास्सर्वे ऊनाधिक्यविवर्जिताः ॥ २१ ॥ जपार्थ मुनिशार्दूल नित्यं मन्त्रेषु निष्कळे । मणिभिः क्रमसूत्रैस्तु सुतन्तुकळ निष्कळे ( ? ) ॥ २२ ॥
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy