SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. ९ तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः । पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ॥ ४ ॥ मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् । पञ्चापाने मृत्तिकास्स्युस्तथैवान्तरमृत्तिकाः ॥५॥ दश वामकरे देयास्सप्त तूभयहस्तयोः।। पादाभ्यां त्रिमुभिश्शुद्धिर्जाशुद्धिश्च पञ्चभिः ॥६॥ नियोजयोत्ततो विप्र कट्यां वै सप्तमृत्तिकाः । स्वदेहस्वेददोषघ्नं बाह्यकर्दमशान्तये ॥७॥ भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम् । पासूक्तात्तदेतस्मादेकमृद्यपनोदनम् ॥ ८॥ शरद्रीष्मवसन्तेषु नित्यं कार्या क्रियापरैः । एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥९॥ हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः । पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥१०॥ गन्धलेपमपास्यैवं मनश्शुया विशुध्यति । स्नानार्थ मृत्संग्रहणम् ] एवं कृत्वा पुरा शौचं समाचम्य ततः खनेत् ॥ ११ ॥ शङ्खना ह्यखजतेन शुचिस्थानात्तु मृत्तिकाम् । गृहीत्वाऽत्रेण सङ्गह्य यायाज्जलनिकेतनम् ॥१२॥ [स्नानविधिः ]. तत्रादौ जलकूलं तु क्षालयेदखवारिणा । मृदः कृत्वा द्विधा स्थाप्य एक भागोपगं ततः॥१३॥ निधाय गोमयं दर्भानिस्तलास्त्रानभिमश्रितान् । लौकिकं गोमयाख्येन भागेन [स्नानमाचारेत् ] ॥१४॥ तत(तच्च ? स्नानं पुरा कृत्वा विधिस्नानं सगाचरेत् । 1 [विधिस्नाने क्रमः] विषिस्नाने तु मद्भागो यस्तं कुर्याद्विधा पुनः ॥ १५ ॥ पादादि क्षाल्यमेकेन पूर्ववत्क्रमयोगतः । पाणिपक्षालनं कृत्वा विनिमज्य जलान्तरे ॥ १६ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy