SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ८-९] मुद्राबन्धाख्यानं [ आवाहनमुद्रा] किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् । अङ्गुष्ठो विरलस्पष्टो मुद्रा ह्यावाहने स्मृता ॥ १११ ॥ [विसर्जनमुद्रा] खगधारासमाकारा विरलाङ्गुलिकावुभौ । अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः ॥ ११२ ॥ कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने । [सुरभिमुद्रा] ग्रथितौ [द्वौ] करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ ११३ ॥ कनीयसौ तदाङ्गुष्ठौ सुश्लेषेण नियोज्य च । मध्यमाङ्गुलियुग्मं तु अन्योन्यकरपृष्ठगम् । विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा ॥ ११४ ॥ मुद्रपा कामधेन्वाख्या सर्वेच्छापरिपूरणी । द्विपकारं तु 'मुद्राणां प्रयोग नित्यमाचरेत् ।। ११५ ॥ संविन्मयं तु चाध्यात्मरूपं भास्वरसंपुटम् । बाह्यान्तस्त्रिविधं विष कर्मवाक्चित्तजं तु यत् ॥ ११६ ॥ अनेन विधिना मुद्रा यो बधाति विधानवित् । तेनेदं मुद्रितं विश्वमपुनर्भवसिद्धिदम् ॥ ११७ ॥ इति श्रीपाश्चरात्रे जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः । अथ पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः । श्रीभगवान् । अथाधिकारसिद्ध्यर्थ स्नानं वक्ष्यामि पूर्वतः । येन भक्तोऽभिषिक्तस्तु स्यादों होमयागयोः ॥१॥ [स्नाने द्वैविध्यम् ] स्नानं तु द्विविधं कुर्यान्मलसङ्करशुद्धये । सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥२॥ सामान्यं लौकिकं स्नानं विशिष्टं मनसंस्कृतम् । [शौचविधिः] तश्चापि शौचपूर्व स्यात्तदादौ कथयामि ते ॥ ३ ॥ 1 विप्राणां CL. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy