SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयाख्यसंहिता [प.८ [ सूर्येन्द्रग्मिलक्षणधामत्रयमुद्रा ] दक्षिणस्य तु हस्तस्य तर्जन्यष्ठमेलनम् ॥ ७६ ॥ कृत्वा तदनु तद्वन्धं विकास्य च शनैः शनैः । समुत्तानं पुनः कुर्याच्छाखासङ्घ पृथक्स्थितम् ॥ ७७ ॥ 'धामत्रयस्य मुद्रैषा हंसाख्यां तु निबोध मे । [हंसमुद्रा] स्पष्टौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ॥ ७८ ॥ भावासनस्य मुद्रैषा सुभुद्धा परमार्थकी । एष आसनमत्राणां मुद्राबन्धो मयोदितः ॥ ७९ ॥ क्रमाक्षेत्रेशपूर्वाणां वीजानां मुनिसत्तम । पद्मनिध्यधिपान्तानां मुद्रादशकमुच्यते ॥ ८०॥ [क्षेत्रेशमुद्रा] ग्रस्तमङ्गुलिसंख्यातं कृत्वा पाणिद्वयेन तु । बलात्मपीडयेत्कुर्यादङ्गष्ठद्वयमुच्छ्रितम् ॥ ८१ ॥ मुद्रेयं क्षेत्रपालस्य श्यादीनामथ मे शृणु । [श्रीमुद्रा] उत्तानौ तु करौ कृत्वा निकटस्थौ तु नारद ॥ ८२ ॥ तदङ्गुलीगणं सर्व कुञ्चितं मध्यसंस्थितम् । अङ्गुष्ठौ पतितौ कृत्वा क्रमशः स्पष्टता नयेत् ॥ ८३ ॥ श्रीवीजस्य तु मुद्रैषा प्रथमं कथिता तव । [चण्डमुद्रा] समुत्थाप्य कराद्वामात्तजेनी चण्डबीजजा ॥ ८४ [प्रचण्डमुद्रा] तामेव दक्षिणादस्तात्प्रचण्डाख्यस्य विद्धि वै । [जयमुद्रा] मध्यमाद्वामहस्ताद्वै समुत्थाप्य जयस्य च ॥ ८५ ॥ [विजयमुद्रा] दक्षिणाद्विजयाख्यस्य बीजस्य परिकीर्तिता ॥ ८६ ।। [गांगमुद्रा] वामाच्चानामिका प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् । 1 द्विधा मन्त्रस्य तत्रैषो A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy