SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ ज्योतिर्विज्ञानशब्दकोषः भार्द्धम्, भ्रमरपादनाम् रसा:', रागाः, वज्रकोणानि, शास्त्राणि, समयाख्या, चेत्येते षड्वाचका: शब्दाः । सप्तपर्यायौ-सप्त (अन्) (त्रि०ब०), सप्तकम् त्रि०)। सप्तवाचकशब्दाः-अश्वनाम, उष्णिक (ह) (छन्दोजाति विशेष:), ऋषिसंज्ञा द्वीपा:२, धान्यानि, नृपाः३, पर्वताख्या, पातालाख्या, भारतीयकुलाचला:, राज्याङ्गानि , लोका:, बह्निशिखा: (जिह्व:), वायवः, वारा:, समुद्राः, सूर्याश्वाः, स्वराश्चेत्येते सप्तवाचकशब्दाः। अष्टपर्याया:-अष्ट (अन्), (त्रि०ब०), अप्टकम् (त्रि०), चतुर्द्विकम् (त्रि०), द्विघन: (पु०), द्विचतुष्कम् (त्रि०)। अष्टवाचकशब्दाः-अनुष्टुव् () (स्त्री०) (छन्दोजातिविशेष:), कुलाचला:, दिक्पाला: (लोकपाला:), दिग्गजाः, मङ्गलानि', योगाङ्गानि', वसवः, शिवमूर्तयः, सर्पाख्या, सिद्धयः हस्त्याख्या, चैतेऽष्टवाचकशब्दाः। नवपर्यायाः-नव (अन्), (त्रि०ब०), त्रिकृत्तिः (स्त्री०), त्रित्रिकम् (त्रि०), त्रिवर्ग: (पु०), नवकम् (त्रि०)। (१) मधुरः, अम्लः, लवणः, कटुकः, कषाय, श्चैते षड्रसाः स्युः। (२) जम्बूद्वीपः, प्लक्षद्वीपः, शाल्मलिद्वीपः, कुशद्वीपः, क्रौञ्चद्वीपः, पुष्करद्वीप-चैते सप्तद्वीपा: स्युः। (३) तदुक्तं ग्रन्थान्तरे (१) भरता (२) र्जुन (३) मान्धात (४) भगीरथ (५) युधिष्ठीराः। (६) सगरो (७) नहुषश्चैव सप्तैते चक्रबर्तिनः।' इति। (४) उक्तञ्च कामन्दकीयेस्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत्। परस्परोपकारीदं सप्ताङ्ग राज्यमुच्यते।।' इति श०चिं०१/९९। (५) मङ्गलभेदाः-(१) ब्राह्मणः, (२) गौः, (३) अग्निः (४) सुवर्णम्, (५) धृतम् (६) सूर्यः, (७) जलानि, (८) राजा, चैतान्यष्टौ मंगलानि स्युः।। उक्तं च–'मत्स्त्य सूक्त महातंत्र ४३ पटले'लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणे गौर्हताशनः। हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः। एतानि सततं पश्येत्रमस्येदर्चयेततः। प्रदक्षिणं तु कुर्वीत तथा चायुर्न हीयते॥' इति। (६) (१) यम (२) नियमा (३) सत (४) प्राणायाम (५) प्रत्याहार (६) धारणा (७) ध्यान (८) समाधयः इत्येतात्यष्टौ योगाङ्गानि स्युः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy