________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः रवेर्मातृपर्यायाः-अदितिः-ती, अमरमाता (तृ), ऋ:, ऋनामा, कश्यपपत्नी, कश्यपभीरु:, काश्यपी, त्रिदशेन्द्रप्रसूः, दक्षप्रजापतिकन्या, देवजननी, देवप्रसूः, देवमाता (तृ), देवाम्बिका, मित्रजननी, सुरजननी, सुरप्रसू:, सुरसवित्री, सुराम्बा।
रवेः पितृपर्याया:-कर्दमकन्याकुमार:, कलाङ्गजः, कलागर्भजः, कलापुत्रः, कलाभव:, कलाभूः, कश्यपः, काश्यपः, मरीचिजः, मरीचिपुत्रः, मारीच:, सुरजनकः, सुरतातः, सूर्यपिता।
कश्यपपत्नीभेदाः-(१) अदितिः, (२) दिति:, (३) दनुः, (४) काला, (५) दनायुषा, (६) सिंहिका, (७) मुनि:, (८) क्रोधा, (९) वरिष्ठा, (१०) सुरभिः, (११) वशा, (१२) कद्रूः, (१३) विनता, चेत्येतास्त्रयोदश कश्यपस्य पत्ल्य: सन्ति।
सूर्यद्वादशभेदाः-(१) विष्णुः, (२) यमः, (३) विवस्वान् (मतु०), (४) अंशुमान् (मतु०), (५) पर्जन्यः, (६) वरुणः, (७) इन्द्रः, (८) धाता (तृ), (९) मित्र:, (१०) पूषा (अन्), (११) त्वष्टा (ष्ट), (१२) भगश्चैते चैत्रादितो रवेदशभेदाः स्युः।
चक्रवाकपर्यायाः-कान्तः, कामी (इन्), कामुकः, कोकः, गोनर्दः? चक्र:, चक्रवाक:, चक्राह्वयाह्वयः, द्वन्द्वचरः, द्वन्द्वचारी (इन्), भूरिप्रेमा (अन्), रथाङ्गः, रथाङ्गाह्नः, रथाङ्गायनायकः, रात्रिवियोगी (इन्), रात्रिविश्लेषगामी (इन्), राविषः, सहायः।
बन्युपर्यायाः-ज्ञाप्तिः, बन्धुः, बान्धवः, सगोत्र:, स्वः, स्वजनः।
मित्रपर्याया:-मित्रम् (न०) (अजहल्लिङ्गम्), वयस्य:, सखा (खि), सवयाः (अस्), सहचर:, सहायः, साप्तपदीन:, सुहृत् (द्), स्निग्धः।
आकाशप०-आकाश:, खम्, गगनम्, नभ: (अस्), शेषस्त्वन्यत्र। नेत्रप०-अक्षि (इन्), चक्षुः (५), नयनम्, नेत्रम्, लोचनम्, शेषस्त्वन्यत्र।
चोरप०-एकागारिकः, चोरः, चोरड: चौरः, तस्करः, दस्युः, पटचोरः, परास्कन्दी (इन्), परिमोषी (इन्), पाटच्चर:, पारिपन्थिकः, प्रतिरोधकः, मलिम्लुचः, रात्रिचरः।
वनप०-काननम्, गहनम्, वनम्, विपिनम्, शेषस्त्वन्यत्र। अस्तप०-अस्त:, अस्तमनम्, लुप्त:, लोपः, शेषस्त्वन्यत्र। उदयप०-असूर्यग:, उदयः, दृश्यमान:, शेषस्त्वन्यत्र। अत्र विशेषः। ग्रन्थान्तरे-- 'वैशाखादिषु मासेषु लग्नेष्वन्यादिषु क्रमात्। उदेत्यर्कः, स्वोदयादङ्गात्सप्तमेऽङ्केऽस्तमेति सः।।
अर्थात्-वैशाखदिषु द्वादशमासेषु क्रमात् मेषादिषु द्वादशलग्नेषु सूर्य उदेति। तथा स्वोदयलग्नात्सप्तमे लग्ने सः (सूर्य:) अस्तमेति अस्तं प्राप्नोतीत्यर्थः। ___ वस्त्रप०-अंशुकम्, अम्बरम्, आच्छादः, आच्छादनम्, कर्पट:, कशिपुः, चीरम्, चीवरम्, चेलम्, छादनम्, द्विचयम्, निवसनम्, पटम्, प्रोतम्, लक्तकः, वसनम्, वसित्तम्,
For Private and Personal Use Only