SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ ज्योतिर्विज्ञानशब्दकोषः (१०) ब्रह्मसावर्णिः, (११) धर्मसावर्णिः, (१२) रुद्रसावर्णिः, (१३) रोच्यः (देवसावर्णिः), (१४) भौत्यः (इन्द्रसावर्णिः) इत्येते चतुर्दश मनव: स्युः। प्रलयपर्याया:-कल्पः, कल्पान्त: (कल्पसंहारः), क्षयः, जगत्क्षयः, जिहानकः, दैनन्दिनः, परान्तः, परिवर्तः, परीवर्त:, भूतप्लव:, महाप्रलय:, महासुप्तिः, युगान्त: (युगसंहारः), लोकशेष:, संवर्तः, संहारः, समसुप्तिः, सर्वनाशनः । प्रतिसर्गप०-प्रतिसञ्चारः, प्रतिसर्गः, प्रलयः, संहारः। कालान्यभेदाः-(१) पूर्वाह्नः, (२) मध्याह्नः, (३) सायाह्नः, (४) पूर्वरात्रः, (५) मध्यरात्रः, (६) अन्त्यरात्रः। (एते कालस्य षड्भेदाः स्युः। कालान्यप्रभेदाः-(१) भूतम्, (२) वर्तमानम्, (३) भविष्यत्, इत्येते कालस्य त्रयः प्रभेदाः स्युः। - भूतकालपर्यायाः-अतीतकाल:, गतकालः, भूतकाल:, यातकालः, वृत्तकालः, व्यतीतकाल:। वर्तमानकालपर्यायाः-अतीतानागतभिन्नकालः, अद्यतनम्, अधुनातनम्, इदानीन्तनम्, वर्तमानः, वर्तमानकाल:। (आरब्धात्परिसमाप्तिर्वर्तमानः कालः।) भविष्यत्कालप०-अनागतम्, उदर्कः, भविष्यम्, भविष्यत्, भावी (इन्), श्वस्तनम्। सद्यः फलपर्यायाः-सांदृष्टिकम्, सांसृष्टिकम्, यत्सद्यः फलं तत्। वर्तमानकालफलपर्यायाः-तत्कालः, तदात्वम्, तात्कालिकम्, वर्तमानकालफलम्। आगामिकालफलपर्यायाः-आगामिकालफलम, आयति: (शुभोत्तर: काल:), उदर्क: (उत्तरं भाविफलं स:), एष्यत्कालीनफलम्, भाविकर्मफलम्, भाविफलम्। उषःकालपर्यायाः-अहर्मुखम्, उष: (अस्) (न०), प्रत्यूष: (पुं०) शेषपर्यायास्तु प्रभाते द्रष्टव्या :। अस्य निर्णयो यथा— 'पञ्चपञ्च उष:कालः' इति देवीभागवतम्। पञ्चपञ्चाशद्धटिकोत्तरमुषः कालः। अथवा-होराद्वयात्मकराविशेषकालः।। ब्राह्ममुहूर्तपर्याया:-ब्राह्ममुहूर्त्तः, स यथा-अरुणोदयकालस्य प्रथमदण्डद्वयात्मकः कालः। मदनपारिजाते तु–'शेषार्द्धप्रहरो ब्राह्मो मुहूर्तः। इति। तत्रापि–'सूर्योदयात्प्रागर्द्धप्रहरे यौ द्वौ मुहूर्ता। तत्राद्यो ब्राह्मः, द्वितीयो रौद्रः। यल्लक्ष्यम्-'ब्राह्मे मुहूर्ते उत्तिष्ठेत् ' इति वाग्भटः। 'ब्राह्म मुहूर्ते किल तस्य देवी' इति रघु: ५/३६ अरुणोदयकालपर्यायाः-अरुणोदयकालः, ब्राह्ममुहूर्तः। सूर्योदयात्पूर्वं मुहूर्तद्वयात्मकः काल:। स यथा-'रजनीशेषयामस्य शेषार्द्धमरुणोदयः।' इति। अपि च—'चतस्रो घटिका: प्रातरुणोदय उच्यते' इति। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy