SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७८ ज्योतिर्विज्ञानशब्दकोषः यथा - हस्ते प्रयाय पवने विदधातु यात्राम्' इति वि०मा० । आत्मनेपदे यथा लटि - विधत्ते, विदधाते, विदधते । वि०लि० – विदधीत, विदधीयाताम्, विदधीरन् । -'दृष्ट्वा विधत्ते वशवर्तिनं तम्' इति । 'विदधीत गुरौ लग्ने स्वांशस्थे' इति च वि०मा० । कर्मकर्तृके लटि - विधीयते, विधीयेते, विधीयन्ते । यथा - 'विधीयतेऽन्यैर्नियमात्तदन्वयम्' इति वि०मा० । Acharya Shri Kailassagarsuri Gyanmandir 'सम् + पद्' सम्पादने (करना) । (दिवादौ ) – 'णिजि' (स०अ० ) । परस्मैपदेलटि - सम्पादयति, सम्पादयतः, सम्पादयन्ति । वि०लि०-सम्पादयेत्, सम्पादयेताम्, सम्पादयेयुः। 'आत्मनेपदे - लटि–सम्पादयते, सम्पादयेते, सम्पादयन्ते । वि०लि० – सम्पादयेत, सम्पादयेयाताम्, सम्पादयेरन्। 'डुकृञ्' करणे (करना) । (तनादौ ) – परस्मैपदे – (स० ) । लटि - (प्र०पु०) करोति, कुरुत:, कुर्वन्ति । ( म०पु० ) करोषि कुरुथ:, कुरुथ । (उ०पु० ) करोमि, कुर्वः, कुर्मः । यथा - वक्रां करोत्यनिमिषः पदवीं यियासोः' इति वि०मा० । 'खगौ सितेज्यौ कुरुतो नृपालम् । इति ग्रं० का० । 'लग्ने दिवाकरविधुन्तुदमन्दभौमाः कुर्वन्ति राज्ययजमानविनाशनं च।' इति वि०मा० । लोटि - ( प्र०पु० ) करोतु कुरुतात्। कुरुताम् । कुर्वन्तु । ( म०पु० ) कुरु कुरुतात् । कुरुतम् । कुरुत । ( उ०पु० ) करवाणि, करवाव करवाम । वि०लि० - कुर्यात् कुर्याताम् कुर्युः । यथा - अत्याज्यनामनि सशूर्पघटे विचापे 'कुर्यात् ' इति वि०मा० । 'कुर्यातां' गुरुशशिनौ स्वगौ ससौम्यौ' इति ग्रं० का० । 'कुर्युः स ते मिथुनं गृहोदयगतान्' इति बृ०जा० । आत्मनेपदे लटि – कुरुते, कुर्वाते, कुर्वते । वि०लि० – कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। यथा- - ' शुभेक्षिते चेत्कुरुते गिरं चिरात्' इ० बृ०जा० । 'दुरधारा विधुरां कुरुते वधूम् इ०वि०वृ० | 'प्र + डुकृञ्' करणे (करना)। परस्मैपदे - लटि —-प्रकरोति, प्रकुरुत:, प्रकुर्वन्ति । वि०लि० - प्रकुर्यात्, प्रकुर्याताम् प्रकुर्युः । यथा - 'सिद्धं च सिद्धा प्रकरोति पुंसाम् । इजि ज्यो० सा० । आत्मनेपदे लटि – प्रकुरुते, प्रकुर्वाते, प्रकुर्वते । वि०लि० – प्रकुर्वीत, प्रकुर्वीताम् प्रकुर्वीरन् । यथा— - पित्तं प्रकुर्वीत रविर्विलग्नग' इ० ग्रं० का ० । कर्मर्त्तृके-लटि - क्रियते, क्रियेते, क्रियन्ते । यथाक्रियते काशिनाथेन शीघ्रबोधाय संग्रहः । इति शीघ्रबोधे १|१| 'णिजि' – परस्मैपदे लटि - कारयति, कारयतः, कारयन्ति । वि०लि० - कारयेत्, कारयेताम् कारयेयुः । आत्मनेपदे लटि—कारयते, कारयेते, कारयन्ते । वि०लि० - कारयेत, कारयेयाताम्, कारयेरन्। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy