SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ ज्योतिर्विज्ञानशब्दकोषः यथा—'कलेवरेशे निजभेऽथवान्त्ये पृक्तौ जनौ चेत्कलुषग्रहाणाम्। इति ग्रं० का। संयोगः (पुं०), सम्पर्कः। यथा---'संयोगो भवभे दिवाकरभुव:' इ०ग्रं०का०। संसर्ग: (पुं०), सङ्गः, सङ्गमः। यथा-'संसर्गस्तनुभवने दिनेशचान्द्रयोः।' इ० ०का०। संस्पर्श (पु०), १ स्पर्शः। २ सम्बन्धः। यथा-' संस्पर्श मृतिमन्दिरे तनुविभोः सौम्यैर्यदा नेक्षिते' इ० ग्रं०का०। समागमः (पुं०), संयोगः। यथा-'समागमे शीतरुचे: कलेवरे।' इ० ग्र०का। सम्पर्क: (पु०), १. सम्बन्धः, २. संयोगः, ३. मेलकः। यथा---'सम्पर्क: सहजगृहे शुभग्रहाणाम्' इ० ग्रं० का०। सम्बन्धः (पुं०), संयोगपूर्वः।। यथा-'सत्सम्बन्धे भाग्यगेहे विधीशे सद्भिदृष्टे जायते भाग्यवान्ना।' इ०ग्रं०का०। स्पर्श: (पु०), १. सम्पकः, २. स्पर्शनम्। यथा-स्पर्श वित्ते बोधनस्याथवेन्दोः' इ० ग्र०का। स्पृष्टिः (स्त्री०), पृक्ति:, सम्पर्कः। यथा-'स्पृष्टौ कलेवरगृहे यदि लोहितांशोः' इ०० का०। अथाऽधुनासम्बन्धिपर्यायोदाहरणानिसंयोगी (इन्) (त्रि०), संयोगविशिष्टः।। यथा-संयोगिनीहास्तगृहे भृगोर्जनेः' इ० ०का०। संसर्गी (इन्) (त्रि०), १. संसर्गविशिष्टः, २. सङ्गी, मत्वर्थीय इति। यथा-'खलसंसर्गिणि भावे' इति जै०प०। सम्पर्की (इन्) (त्रि०), सम्पर्कविशिष्टः।। यथा--'सम्पर्किणि धूनगृहे दिवाविभो।' इ. ग्र.। सम्बन्धी (इन्) (त्रि०), सम्बन्धविशिष्टः, गुणवान्, संयुक्। यथा-'चन्द्रोविलग्नसम्बन्धी वाहनेशसमन्वितः।' इति जा०पा०। अथ सम्प्रतीहोपयोगिनामणप्रत्ययान्तादीनां युक्तस्थितादिवाचकप्रकीर्णशब्दोदाहरणानि प्रदर्श्यन्ते ___ यथा-अण्प्रत्ययान्ता:कौल: (त्रि०), कुलं, वंशः, तत्र भव:, इत्यनेनाण् प्रत्ययः, दशमभावस्थ इत्यर्थः। स्मारः (त्रि०), स्मरः, कामः, 'तत्र भवः' इत्यनेनाण प्रत्ययः। सप्तमभावस्थ इत्यर्थः। कौशः (त्रि०), कुशं, जलं, 'तत्र भवः' इत्यनेनाण् प्रत्ययः। चतुर्थभावस्थ इत्यर्थः। यथा—'स्मारोऽसुरेन्द्रमहित: सहसा समेत: कौल: कलाधरसुतो यदि जन्मदिष्टे। कौशोऽत्रिजोऽखिलतनुः पदमन्दिरं सत्' इति ग्रं०का०। अथवा'कौशो भवेत्कमलिनीपरिणायकश्चेत्स्मार: सवित्कविरिहाहवयानकाले।' इति ज्यो०भ०। __ अधिकल: (पुं०), पूर्णः। यथा— 'पुरप्रवेशेऽधिकले विधौ हितः' इ०ज्यो. भ.। अधिकृत् (त्) (त्रि०), अधिकारवान्। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy