SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चाङ्गसर्गः अमाया भेदौ-यदि दृष्टचन्द्रे सा तदा (१) 'सिनीवाली'। नष्टचन्द्रे तु सा (२) कुहुः, कुहूः, इति अमाया द्वौ भेदौ स्याताम्। तिथिस्वामिनामानि–(१) अग्निः, (२) ब्रह्मा (अन्), (३) गौरी, (४) गणेशः, (५) सर्पः, (६) स्कन्दः, (७) रविः, (८) शिवः, (९) दुर्गाः, (१०) यमः, (११) विश्वेदेवाः (पुं०ब०), (१२) विष्णुः, (१३) कामः, (१४) शिवः, (१५) चन्द्रः, (३०) पितरः (पुं०ब०) (पितामहाः)। __ तिथिभेदाः (१) नन्दा, (२) भद्रा, (३) जया, (४) रिक्ता, (५) पूर्णा चेत्येते तिथीनां पञ्चभेदाः स्युः। नन्दातिथिनामानि-प्रतिपदा, षष्ठी, एकादशी इति। भद्रातिथिनामानि-द्वितीया, सप्तमी, द्वादशी इति। जयातिथिनामानि-तृतीया, अष्टमी, त्रयोदशी इति। रिक्तातिथिनामानि-चतुर्थी, नवमी, चतुर्दशी इति। पूर्णातिथिनामानि-पञ्चमी, दशमी, पूर्णिमा इति। एकयोक्त्या पूर्णिमादर्शयोः पर्यायाः-नन्दि-वर्द्धनौ, पक्षान्तौ, पञ्चदश्यौ (स्त्री०द्वि०), पर्वणी (अन्) (न०वि०), यज्ञकालौ इति। पर्वमूलपर्यायः-भूतेष्टापञ्चदश्योर्यदन्तरं तत् ‘पर्वमूलम्' इति। पर्वसन्धिपर्यायः----प्रतिपत्पञ्चदश्योर्यदन्तरं स: ‘पर्व-सन्धिः' इति। पक्षमूलपर्यायाः-पक्षतिः (स्त्री), पक्षती (स्त्री०), पक्षमूलम् इति। अशुभतिथिनामानि-(१) चतुर्थी, (२) नवमी, (३) चतुर्दशी, (४) अमावास्या चैताश्चतस्रोऽशुभतिथयः स्युः। एता: शुभे वाः। वारपर्यायाः-अवसरः, अहः, अहन्, दिनम्, वारः, वासरः, दिवस:, वेला इति। वारनामानि–(१) रविवारः, (२) सोमवारः, (३) मङ्गलवारः, (४) बुधवारः, (५) गुरुवारः, (६) शुक्रवार: (७) शनिवारश्चेत्येते सप्तवारा: स्युः। क्रूरवारनामानि–(१) रविः, (२) मङ्गलः, (३) शनिश्चैते त्रयः क्रूरवाराः स्युः। सौम्यवारनामानि–(१) सोमः, (२) बुधः, (३) गुरु:, (४) शुक्रश्चैते चत्वार: सौम्यवारा: स्युः। क्रूरवाचकशब्दाः -अशुभम्, अशोभनम्, असत्, उग्रम्, क्रूरम्, दुष्टम् पापम्। सौम्यवाचकशब्दाः-शुभम्, शोभनम्, सत्, शांतम, अक्रूरम्, पुण्यम्, सौम्यम्। नक्षत्रपर्यायाः-उडु (न०) उडु:, (स्त्री०) ऋक्षम्, ग्रहः, चन्द्रदाराः (पुं०ब०), ज्योतिः (इस्) (न०) तारम्, तारकम्, तारका, तारा, दक्षजाः (स्त्री०व०), दाक्षायण्य: (स्त्री०ब), दिवाभीतम्, धिष्ण्यम्, नक्षत्रम्, भम्, भासन्तः, भासन्ती (स्त्री०), रात्रिजम्, रात्रिदृश्यम्, सत्?, स्तृ? इति। नक्षत्रनामानि-(१) अश्विनी, (२) भरणी, (३) कृत्तिका, (४) रोहिणी, (५) मृगशीर्षम्, (६) आर्द्रा, (७) पुनर्वसुः, (८) तिष्य: (पुष्यः), (९) आश्लेषा, (१०) मघा For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy