________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२
ज्योतिर्विज्ञानशब्दकोषः
तिथिपर्यायाः - कर्मवाटिका, कर्मवाटी, कला, तिथि: (पुं० स्त्री०) तिथी (स्त्री)। तिथिनामानि – (१) प्रतिपदा, (२) द्वितीया, (३) तृतीया, (४) चतुर्थी, (५) पञ्चमी, (६) षष्ठी, (७) सप्तमी, (८) अष्टमी, (९) नवमी, (१०) दशमी, (११) एकादशी, (१२) द्वादशी, (१३) त्रयोदशी, (१४) चतुर्दशी, (१५) पूर्णिमा चेति शुक्लपक्षे तिथिनामानि । एवं कृष्णेऽपि । परन्तु तत्र पूर्णिमास्थाने (३०) 'अमावस्या' इति सञ्ज्ञा ज्ञेया ।
शुक्लप्रतिपदापर्यायाः - अग्नितिथि:, अजातचन्द्रा, आग्नेयी, आदिमा, आद्या, एकपक्षतिः, पक्षतिः, प्रतिपत् (द्) प्रतिपदा, प्रथमा, सितास्या ।
द्वितीयापर्यायाः - द्वितीया, धातृतिथि:, निपक्षतिः । तृतीयापर्यायाः - गिरिजातिथिः, गौरीतिथिः तृतीया । चतुर्थीपर्यायाः - गणेशतिथिः, चतुर्थी, लम्बोदरतिथिः । पञ्चमीपर्यायाः - अहितिथिः, पञ्चमी, सर्पतिथिः । षष्ठीपर्यायाः - कार्तिकेयतिथिः, षष्ठी, स्कन्दतिथिः । सप्तमीपर्यायाः - दिनकृत्तिथिः, रवितिथिः सप्तमी । अष्टमीपर्यायाः - अष्टमी, महेशतिथिः ।
नवमीपर्यायाः - दुर्गातिथिः, नवमी ।
दशमीपर्यायाः - अन्तकतिथि:, दशमी, यमतिथिः । एकादशीपर्यायाः - एकादशी, विश्वेदेवतिथिः ।
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशीपर्यायाः - द्वादशी, विष्णुतिथि:, हरितिथिः । त्रयोदशीपर्यायाः - कामतिथिः त्रयोदशी ।
चतुर्दशीपर्यायाः - कलिः, चतुर्दशी, पाटूर, शिवतिथिः ।
-
पूर्णिमापर्यायाः – चन्द्रमाता (तृ), चान्द्री, धर्म्मवासरः, निरञ्जना, पित्र्या, पूर्णमा, पूर्णमासी, पूर्णा, पूर्णिका, पूर्णिमा, पौर्णमासी, पौर्णमी । इति ।
पूर्णिमाया भेदौ - (१) अनुमति:, (२) राका चेति पूर्णिमाया द्वौ भेदौ स्याताम् । यत्र चन्द्रः कलोनस्तत्र 'अनुमतिः । यत्र स परिपूर्णस्तत्र 'राका' ज्ञेया ।
कृष्णप्रतिपदापर्यायाः - कलोनचन्द्रा, कृष्णास्या, बहुलमुखा । शेषपर्यायास्तु शुक्लपक्षवज्ज्ञेयाः ।
कृष्णचतुर्दशीपर्यायाः - भूतः, भूता, भूतेष्टा । शेषपर्यायास्तु शुक्लपक्षवज्ज्ञेयाः । अमावास्यापर्यायाः - अमा, अमामसी, अमामंस्या, अमावसी, अमावस्या, अमावासी, अमावास्या, तिथिक्षयः, दर्शः, पितृतिथि, विगतचन्द्रतिथिः, विधुक्षयः, सूर्येन्दुसङ्गमः, इति ।
For Private and Personal Use Only