SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहगणितसर्गः १११ क्षेपवृत्तप०-क्षेपवृत्तम्, विक्षेपमण्डलम्, विक्षेपवृत्तम्। विषुवप०-वासन्तिकम्, महाविषुसंक्रान्ति:, विषुवम्, विषुवत्, समरात्रिंदिवाकाल:। कक्षाच्युतिप०-कक्षाच्युतिः। केन्द्रच्युतिप०-केन्द्रच्युतिः। इष्टहतिप०-अभीष्टच्छेदः, इष्टहतिः। यष्टिप०-यष्टिः। इष्टयष्टिप०–इष्टयष्टिः। 'दङमण्डलप०-दृक्क्षेपमण्डलम्, दृङ्मण्डलम्। विषुवन्मण्डलप०–नाडिकामण्डलम्, नाडीमण्डलम्, नाडीवृत्तम्, विषुवनेखा, विषुवद्वृत्तम्, विषुवन्मण्डलम्। 'उन्मण्डलप०-उन्मण्डलम्, उन्मण्डलवृत्तम्, लङ्काक्षितिजम्। सममण्डलप०--विमण्डलम्, सममण्डलम्, याम्योत्तरमण्डलम् (पूर्वपराश्रिता रेखा)। अत्राह भास्करः प्राक्पश्चिमाश्रिता रेखा प्रोच्यते समण्डलम्। उन्मण्डलं च विषुवन्मण्डलं परिकीर्तितम्।। इति सिद्धान्तशिरोमणौ। दिक्प०-आशा, दिक् (श्) दिशा, शेषास्त्वन्यत्र। दिग्भेदाः-(१) अपरा (पश्चिमा), (२) पूर्वा (प्राची), (३) उदक् (उदीची), (४) याम्या (अवाची), चैताश्चतस्रो दिश: स्युः। (पृष्ठ ११०का शेष) तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना' इत्यादि। अस्य भचक्रस्य भ्रमणव्यवस्थामाह भास्कर:-(सिद्धांत शिरोमणौ) 'निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ। तदाश्रितं खे जलयंत्र वत्सदा भ्रमदभचक्रं निजमस्तकोपरि। उदग्दिशं याति यथा यथा नरस्तथा तथा खानतमृक्षमण्डलम्। उदग् ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजा: पलांशकाः। योजनसंख्या भांशै ३६०गुणिता कुपरिधि ४९६७ हृता भवन्त्यंशाः भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम्। (२) नक्षत्रकला–नक्षत्राधिष्ठितगोलमध्यवृत्तम्। (१) खस्वस्तिके चाधः स्वस्तिके चान्तः कीलकां कृत्वा समं प्रोतं श्लथं दृग्वलयं कार्यम्। (२) तयोरेव पूर्वापरसम्पातयोर्विलग्नं, याम्योत्तरवृत्ते खस्वस्तिकाद् दक्षिणतोऽधः, स्वस्तिकादुत्तरतोऽक्षांशान्तो यद्वृत्तं निबध्यते तद् 'विषुवद्' 'वृत्तम्'। षष्टयाऽत्र नाडीवलम् विदध्यात्। इति। (३) क्षितिजवृतम्, निरक्षदेशस्य क्षितिजवृत्तम्, अहोरावृत्तं च दिनरात्र्योवृद्धिक्षयकारणं वा। इति। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy