SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ ज्योतिर्विज्ञानशब्दकोषः चन्द्रफलभेदाः-(१) च्युतिफलम्, (२) तिथिफलम्, (३) मन्दफलम्, (४) राहुकलाफलं, चैते चन्द्रफलभेदाः। गतिमन्दफलप०-गतिमन्दफलम्, गतिमृदुफलम्, भुक्तिमन्दफलम्, भुक्तिमृदुफलम्। मन्दस्पष्टगतिप०–मन्दस्पष्टगतिः, मन्दस्पष्टा, मृदुस्फुटा, मन्दस्पष्टभुक्ति:, मृदुस्फुटगतिः, मृदुस्फुटभुक्तिः। भौमादीनां केन्द्रभेदाः-(१) प्रथमशीघ्रकेन्द्रम्, (२) मन्दकेन्द्रम्, (३) द्वितीयशीघ्रकेन्द्रम्, चैते भौमादीनां केन्द्रभेदाः स्युः। भौमादीनां फलभेदाः-(१) प्रथमशीघ्र फलार्द्धम्, (२) मदफलम् (३) द्वितीयशीघ्रफलाखिलम्, चैते भौमादीनां फलभेदाः स्युः। तदुक्तम्'प्राङ्मध्यमे चलफलस्य दलं विदध्यात्तस्माच्च मान्दमखिलं विदधीत मध्ये। द्राक्केन्द्रकेऽपि च विलोममतश्च शीघ्रं सर्वं च तत्र विदधीत भवेत्स्फुटोऽसौ।। इति ग्रहलाघवे । भौमादीनां गतिफलभेदाः-(१) मन्दगतिफलम्, (२) शीघ्रगतिधनफलम्, (३)" शीघ्रगत्यृणफलं चैते गतिफलभेदाः स्युः। भौमादीनां गतिभेदाः-(२) मध्यमगति: (ग्रहमध्यभुक्तिः, (२) मन्दगति: (मन्दपरिस्फुटा, मृदुस्फुटा:), (३) शीघ्रगति: (शीघ्रभुक्तिः, द्राक्केन्द्रभुक्तिः), (४) वक्रगतिः (कुटिलभुक्तिः), (५) स्पष्टगति: (स्फुटभुक्तिः), (६) दैनिकीगति: (धुगति:), (७) तात्कालिकीगतिश्चैते गतिभेदाः स्युः। भौमादीनां गतेरन्यप्रभेदौ-(१) ऋजुगतिः, वक्रगतिश्चैतो द्वौ भेदौ स्तः। ऋजुगतिप्रभेदाः-(१)मन्दा, (२) मन्दतरा, (३) समा, (४) शीघ्रा, (५) शीघ्रतराश्चैते ऋजुगतेः पञ्चप्रभेदाः स्युः। वक्रगतिप्रभेदाः-(१) वक्रा (वक्रगतिः), (२) अनुवक्रा, (३) कुटिला, चैते वक्रगतेस्त्रयः प्रभेदाः स्युः। तदुक्तम्वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा। तथा शीघ्रा शीघ्रतरा ग्रहाणां चाष्टधा गतिः।।' इति सूर्यतिद्धान्ते। मतान्तरे तुग्रहाणां षोढागतिनामानि-पूर्वापरा। याम्योत्तरा। ऊर्ध्वाधरा चेति षोढा गतय:स्युः। उदयवाचकशब्दाः-उदयः, उदितः, उदगमः, दर्शनम्, दृश्य:, समुदयः, समुद्गमः। उदयिवाचकशब्दाः-अनस्तगतः, असूर्यगः, उदयी (इन्), दिवाकरकरव्यासाङ्गमुक्तिः, दृश्ययातः, स्फुरत्प्रभः, अस्तप०-अदर्शनम्, अदृश्यः, अस्तम्, अस्तमनम्, अस्तमयः, मुषितः, मूढः, मौढ्यः, लोपः। अस्तगतप०-अंशुमदंशुसङ्कुलः, अंशुलीन:, अर्ककराभितप्तः, अर्कोपगतः, आदित्यरश्मिपरिभूतः, क्षीणकरः, तिग्मांशुलुप्तद्युतिः, दिनकरलुप्तमयूखः, दिनकरकराभितप्तः, For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy