SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४३) अमुमेवार्थ सिद्धान्तभणित्या निवारयन्निदमाह कप्पम्मिवि भणियमिणं सूरीणामासायगा इमे भणिया। जे सयलजणसमक्खं भणंति एवं अहम्भाणी ।। ७८॥ व्याख्या-कल्पेपि छेदग्रन्थे, न केवलं शेषशास्त्रेष्वित्यपिशब्दार्थः, भणितमुक्तमिदं पूर्वोक्तम्, कथम् ? इत्याह-सूरीणामाचार्याणामाशातका अवज्ञाकारका इमे वक्ष्यमाणा भणिताः प्रतिपादिताः, ये अनिर्दिष्टनामानः साध्वादयः सकलजनसमक्षं समस्तलोकप्रकटं भणन्ति गदन्त्येवं वक्ष्यमाणनीत्या अहंमानिनः आत्मोत्सेकिन इति गाथार्थः॥ कल्पोक्तमेवाह इडिरससायगया परोवएमुज्जया जह मंस्खा। अक्तट्ठघोसणरया घोसिंति दीया व अप्पाणं ॥७९॥ व्याख्या-ऋद्धिरससातगुरुका गौरवत्रयवन्तः परोपदशोद्यता अन्यधर्मकथननियुक्ता मंखा इव विचित्रफलकग्राहिनरविशेषा इव, यथाशब्द उपमानार्थः, स च योजितः । एवमभिप्रायः- मंखो हि परेभ्यः कथयति स्वयं च न करोति, एवमेतेऽपि आत्मार्थघोषणरताः स्वकार्यप्रतिपादनसक्ताः घोषयन्ति उपदिशन्ति द्विजा इव ब्राह्मणा इवात्मानं स्वमेव वदन्तः आचार्याशातका इति हृदयमिति कल्पगाथार्थः ॥ अत्रैवार्थे ससम्बन्धां किञ्चिन्यूनां गाथामाह अन्नं च एत्थ दोसो लोयविरुद्ध हविज इव वयणं । रीढा जणपुजाणं वयणाउ व्याख्या-अन्यच्चेत्यभ्युच्चये, अत्र-आचार्यावर्णवादकरणे दोषो दूषणं लोकविरुद्धं जननिन्धं भवेज्जायतेति वचनम्-एवं प्रतिपादनं, कस्मात् ? रीढा अवज्ञा जनपूज्यानां लोकमान्यानां, वचनात्-पश्चाशकभणनात् । तत्र हि लोकविरुद्धानि प्रतिपादयता भणितं-" उज्जुधम्मकरणहसणं रीढा जणपूयणिज्जाणं" इति किश्चिदूनगाथार्थः ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy