SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४० यार्थस्योक्तत्वादुक्तार्थानां अप्रयोगः इति भवति,तत्र सुचो अप्रयोगा, आरात्रिकमित्यत्रतु यथारादित्यनेन पदेन त्रिरिति पदं समस्यते, तदासंख्यासमासे इति सूत्रेण संख्यावाचिनो नाम्नः, समासमात्रे पूर्वनिपाताभिधानात् त्रिरादिति प्राप्नोति न तु सुचो अप्रयोगः स्थात्सुच् प्रत्ययार्थस्य वारस्यकेनाप्यनुक्तत्वात् , अथोत्तार्यत इत्यनेन क्रियावाचिना अध्याहियमाणेन समस्यते, तदानामनाम्नकार्ये समासो बहुलमिति व्याकरण सूत्रेण नानोनाम्नासाक्षाद्विद्यमानेन समासाभिधानात् , क्रियावाचिना पदेन अध्याहियमाणेन च द्वितीयेनापि समासाभावप्रतिपादनात्सुच् प्रत्ययस्य अनुक्तार्थत्वेन तदनवस्थत्वप्रसंगाच, अथारात्रायते इत्यादिव्युत्पत्त्या मत्वर्थीये इके आरात्रिकपदसिद्धिस्तदपि न हरिहरादिविषयत्वेनापि तदवतारणस्य बहुलं लोके दर्शनात् , तस्मात्पूर्वमूरिग्रन्थेषु रूढस्यारात्रिकशब्दस्यैवान्वाख्यानं श्रेयः, किंवः प्रागल्भीप्रकाशनछमना कल्पितस्यारात्रिक शब्दस्यासंबद्धार्थानेकव्युत्पत्तिकल्पनाभिरात्मनायासितेन, तथा यदपि जिनपूजाव्याप्रियमाणपुष्पादिसंघट्टादिना जीवविराधनासंभवादीर्यापथिकीप्रतिक्रमणसमर्थनं तत्राप्युच्यते, प्रतिक्रमणं हि आ. लोयण पडिकमणे इत्यादि गाथोक्तदशविधप्रायश्चित्तमध्याद् द्वितीयं प्रायश्चित्तं तच्च प्रतिपंक्रमणं प्रतिक्रमणं, अतिचारान्निवृत्य गुणेष्वेव गमनं किमिति मया प्रयोजनमंतरेणैवंविधासत्कृत्यमध्यवसितमित्यादि पश्चात्तापरूपविकल्पेन मिथ्यादुष्कृतदानमितितात्पर्यमिति श्रीमदभयदेवसूरिभिः प्रायश्चित्तपंचाशकवृत्ती व्याख्यातं, एवंसति यदि पूजार्थपुष्पादिसंघटनेपि ईर्यापथकी प्रतिक्रमणं विधीयते, तदा For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy