SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३८ अपावित्र्यनिबंधनस्य कुसुमोझेदस्याकस्मिकत्वेन पावित्र्यावस्थायां अपि तत्संभावनया तासां सर्वदापि पूजानहवस्थानुगुणवात् , श्रूयते च तत्रदृष्टान्तरुपपादितानां मालापहतादिभिक्षाग्रहणदोषाणां कादाचिकत्वेपि प्रवृत्तिदोषादिहेतुना यावजीवं यतीनां तद्वर्जनं तत्कस हेतोः, इक्केणकयमकजं इत्यादिन्यायेनातिप्रवृत्त्या सर्वोपप्लवांतरपातात् यदपि मूलप्रतिमा जगतिप्रतिमानामविशेषापादनेन स्त्रीणां मूलप्रतिमायां अपि स्वहस्तेनपूजनसमर्थनं तदप्यचारु वाचा तासामविशेषममिदधानैरपि भवद्भिर्मनाकायाविशेषस्योपदर्शनात् , तथाहि चतुर्विंशत्यादिजिनालये चैत्यवंदनावसरे यूयं किमिति प्रथमं मूलप्रतिमा बन्दध्वं, तदनुदेवकुलिकाप्रतिमाः, नहि युष्मदाशयेन द्वयीनामप्यारोप्यमाणतीथंकरगुणैरस्ति कश्चिद्विशेषः, तथा प्रथमचैत्ये या मूलप्रतिमात्वेनासी. व, तजातीयैव चैत्यान्तरे यदा जगतिप्रतिमात्वेन व्यवस्थिता प्रतिमान्तरं तु मूलप्रतिमात्वेन तदा किमिति तत्रगतैर्भवद्भिः प्रतिमान्तर प्रागभिवन्द्यते, प्रथमचैत्यमूलप्रतिमाजातीयानुपश्चादुभयोरपि प्राग्वइविशेषात्तथा किमिति तदेवदेवगृहं मूलप्रतिमानामाधेयेन सर्वत्राधारः व्यपदिश्यते, न जगति प्रतिमानानेति किमिति च पूर्व सर्वोपि कश्चिन्मूलप्रतिमायाः सपर्या रचयति, पश्चात्तु शेषप्रतिमानां ततश्चेदमुपस्थितम् यत्रोभयोःसमो दोषः, परिहारश्च तत्समः, नैकपयनुयोज्यस्यात् तादृश्यार्थविचारणे ॥१॥ तसान्मूलेतरप्रतिमानां प्रतिष्ठादिकृतः कश्चिदस्ति संस्कारविशेषः अन्यथा तीर्थकरगुणाध्यारोपाविशेषेपि तासां वन्दनपूजनादिविषयप्राक्पश्चाद्भावादिः नियमानुपपत्तेः, तसादपवादत्वेन तथाविधपूजकालामे मंडपादिप्र For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy