SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ स्याद्वादग्रन्थमाला । मुरजः । लोकत्रयमहामेयकमलाकरभास्वते । एकप्रियसहायाय नम एकस्वभाव ते ॥ ३५ ॥ लोकत्रयेति-लोकत्रयमेव महामेयं वस्तु लोकत्रयमहामेयम्, कमलानां पद्मानां आकरः कमलाकरः नलिनीवनम् । लोकत्रयमहामेयमेव कमलाकरः लोकत्रयमहामेयकमलाकरः तस्य भास्वान् रवि: लोकत्रयमहा. मेयकमलाकरभास्वान् तस्मै लोकत्रयमहामेयकमलाकरभास्वते । एक प्रधानः । प्रिय: इष्टः । सहायः बन्धुः । प्रियश्चासौ सहायश्च प्रियसहाय: एकश्चासौ प्रियसहायश्च एकप्रियसहायः तस्मै एकप्रियसहायाय । नमः अव्युत्पन्नो झिं संज्ञकः पूजावचनः अस्य योगे अप् । एकस्वभाव एकस्वरूप । ते तुभ्यम् । किमुक्तं भवति-चन्द्रप्रभ इत्यनुवर्तते हे चन्द्रप्रभ एकस्वभाव तुभ्यं नमः एवं विशिष्टाय ॥ ३५ ॥ हे सदा एकरूप ! चन्द्रप्रभ जिनेन्द्र इस अपरिमित तीनों लोकरूपकमलयनको प्रफुल्लित करनेवाले और सबके प्रधान इष्ट, मुख्यबंधु आपकेलिये नमस्कार हो ॥ ३५ ॥ ___ अर्द्धभ्रमगृढ द्वितीयपादः । चारुश्रीशुभदौ नौमि रुचा वृद्धौ प्रपावनौ । श्रीवृद्धौतौ शिवौ पादौ शुद्धौ तव शशिप्रभ ॥३६॥ चारुश्रीति—यानि द्वितीयपादाक्षराणि तानि सर्वाणि अन्येषु पादेषु सन्तीति । श्रीश्च शुभं च श्रीशुभे चारुणी च ते श्रीशुभे च चारुश्रीशुभे ते दत्तः इति चारुश्रीशुभदौ । नौमि स्तौमि क्रियापदमेतत । रूचा दीप्त्या । For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy