SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalasagasun Gymandir ईर्यापथिकी पत्रिंशिका ॥२०॥ खरतर जय सोमीया रनुष्ठानमिति चेन, ईपथिक्या व्यभिचारात, सूत्रत्वेऽपि तां विनाऽपि तस्याः पठ्यमानत्वात्मतिक्रम्यमानत्वाच, नन्वीर्यापथिकी तो विनाऽपि पठ्यते प्रतिक्रम्यते च, परं सामायिकमप्रतिक्रान्तायामीर्यायां न पठ्यते तत्कथमनुष्ठीयते ? इति चेत्र, अन्योन्याश्रयदोपादमतिक्रान्तायामस्यामसौ पठ्यते प्रतिक्रम्यते च, सामायिकं तु प्रतिक्रान्तायामेव तस्यां पठ्यते, सूत्रपठनविध्यतिक्रमे पुष्टालम्बनस्याभावात, अनुष्टीयते त्वप्रतिक्रान्तायां, आगमोक्तत्वाद् वृद्धव्यवहारे तथैव प्रवृत्तत्वाच, किश्च यथा कालवेलायामपाठ्यमपि षड्विधावश्यकं काकवेलायामनुष्ठीयते आप्तोपदेशात, तथा ईर्यापथिकायामप्रतिक्रान्तायामपाठ्यमपि सामायिकं अनुष्ठीयते, आप्तोपदेशप्रतिपालनस्य बहुफलत्वादिति कण्टकोद्धारः, अथ यतिजनोचितशिक्षया विशिष्य पूर्वपक्षिणं शिक्षयतिअसमत्थमुहे गाली, सुसमत्थमुहे कहं भवे ? गाली । सो सत्थेहि विआरिय, तस्सऽत्थविहेडणं कुणई ।२९। व्याख्या-'गालि विरुदासभ्यशंसनं अशमस्थानां-शम उपशमो, न शमो अशमः शमादन्यो वाऽशमस्तत्र तिष्ठन्तीत्यशमस्था-उपशमरहिताः क्रोधात ध्माता इति यावत, तेषामशमस्थानां मुखमशमस्थमुखं, तस्मिन्नशमस्थमुखे भवेत् , सुशमस्थानां-परमोपशमापनगात्राणां मुखं मुशमस्थमुखं तस्मिन् मुशमस्थमुखे कथं केनप्रकारेण गालिर्भ वेत ?, असम्भाव्यमेतत्वेषां, "यदि सत्यं कः कोपः स्या-दऽनृतं किन्न कोपेन ?” इति वाक्यस्य तच्चेतसि प्रतिभासनात् , 'स'इति मुशमस्थसाधुः तस्य पूर्वपक्षिणः 'शास्त्रैः' सिद्धान्तै विचार्य अर्थस्य तदुक्तार्थस्य 'विहेटना विविधाऽर्थविहेटना, तां अर्थविहेटनां करोति. आगमोक्तयुक्त्या तदुक्तमर्थ विघटयतीति भावार्थः, श्लेपार्थस्तु अयं-'असमर्थमुखे' निःसत्त्वमुखे'गालिरऽसज्जल्पनं स्यात् , निःसत्त्वतोऽकिञ्चित्करत्वात् , परं सुसमर्थमुखे कथं गालिर्भवेत् ?, अपि तु नैव स्यात्, किन्तु सुसमर्थः क्षत्रियादिः शविदार्य 'तस्य' विपक्षस्य 'अर्थानां' सुवर्णादिवस्तूनां विहेटनं'विघटन अर्थविहेटनं, तत्करोतीत्यन्योक्तिः, भावार्थस्तु ॥२०॥ For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy