SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra इलाती चरित्र 116 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुत्र ! त्वं वंशोपरिविलजीनो नृत्यं कुरु ? एवं नृपादिष्टः स वंशोपरिस्थितस्तथा नृत्यं चकार यथा राजादयः सर्वेऽपि लोका निजहृदयेषु भृशमाश्चयं प्राप्ताः पुनस्तेन क्रूरहृदयेन राज्ञा प्रोक्तं त्वमथाकाशे नि. राधारो भृत्वा नृत्यं कुरु ? तत् श्रुत्वा तेनेलातिपुत्रेणापि तथैवं विहितं. अथैव नृत्यं कुर्वतोऽपि तस्येलातीपुत्रस्य मरणमजातं विलोक्य नृपो निजकुटिलाशयेन तस्य पार्श्वेवास्त्रयमेवमेव निराधारं नृत्यं कारयामास. अथ चतुर्थवारके नृपादेशेन वंशोपरि चटिन इलातीपुत्रस्तं नृपं निजप्रियायामासतमानसं निजमारणाभिलाषं च कुर्वतं स्वबुध्ध्या विज्ञाय चिंतयामास, अहो ! विषयवैषम्यं धिक् ! अयं राजापि मद नवाणविद्धो नीचकुलोत्पन्नायामप्यस्यां नव्यामासक्तो जातोऽस्ति ततश्च मां मारयितुं पुनः पुनर्नृत्यं कारयति. अरेरे! स्वर्गीय देवांगनोपमे सत्यपि निजांतःपुरे कामविहलोऽयं नप एतस्यामेवासक्तो जातः, धिगस्तु कामविकारं यत-सस्वाधीनेऽपि कलत्रे । नीचः परदारलंपटे भवति || संपूर्णेऽपि तटाके । काकः कुंभोदकं पिबति ॥ १ ॥ अरेरे! मया मातापित्रोर्वचनमुध्यैनंविधमकार्य कृतं, निर्मलेऽपि कुले केवलं विषयसुखवांछया कलंको दत्तः, अतो मां धिगस्तु एवंविधा विषयासक्तिर्मयात्रेव दुःखपरिणामरूपाऽनु For Private and Personal Use Only मुल ॥ ८ ॥
SR No.020383
Book TitleIlatiputra Charitram
Original Sutra AuthorN/A
AuthorShubhsheel Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy