SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गुरुतत्त्वप्रदीपे www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनाप्तार्थनिषेधार्थं, हेतुवादः श्रुते वृतिः (स्मृतः) । सुवर्णानां परीक्षायें, हेतुवादः कषोपलः ||३|| व्याख्या - स्पष्टः । नवरं - सुवर्णानां - शोभनाक्षराणामागमोक्तानामित्यर्थः । अन्यदपि यत् सुवर्णं - हेम तस्य कषोपले परीक्षा लभ्यते ॥३॥ ४६ यत्किञ्चिदस्मिन् जगत्यस्ति, तत्सब्र्व्वं सहेतुकमिति विभणिषुस्तात्त्विकदृष्टान्तै र्हेतुं दर्शयन् कथं भवतां ज्ञानमुत्पन्नं यदस्मान्न प्रमाणीकुरुत ? इति परपृच्छायां अस्माकं तत्त्वज्ञानमुत्पन्नमित्युत्तरं दर्शयन्नाह हेतुविचारे माध्यस्थ्यं, कुविचारे यथाऽऽग्रहः । तत्त्वज्ञाने विचारोपि, यथा ज्योतिषसंविदि ॥ ४ ॥ व्याख्या- विचारे युक्तौ कार्यरूपे माध्यस्थ्यं हेतु :- कारणं, मध्यस्थ चित्तपरिणामस्यैव विचारोत्पादात् । यथा आग्रहः कुवि - चारे हेतुः । आग्रहग्रस्तचेतसः कुविचारोत्पादात् । तत्वज्ञाने विचारो हेतुः । विचारक्षोदक्षमस्य चेतसस्तत्त्वज्ञानोत्पादात् । विचारक्षोदक्षमं चाऽऽस्माकीनं चित्तम् । ततोऽस्माकं तत्त्वज्ञानमुत्पन्नं, मतिज्ञानश्रुतज्ञानयोः संप्रत्यपि वर्तमानत्वात् इत्यनुक्तमपि परिज्ञेयम् । यथा ज्योतिषसंविदि - ज्योतिषज्ञाने विचारो हेतु:, सुविचा रितस्यैव ज्योतिषस्य मिलनात् ॥४॥ हेतुः स्यात्कुविचारोऽपि शास्त्रोक्तमात्रमेव वा । तत्त्वाप्रतीतौ चित्तस्य, ज्योतिषाऽमिलने यथा ॥५॥ व्याख्या - चित्तस्य तत्त्वाप्रतीती - तत्त्वस्य अप्रत्ययविषये कुविचारो हेतुः कारणम् । वा अथवा शास्त्रोक्तमात्रमेव - For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy