SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विश्रामः तृतियो विश्रामः कश्चित् कुपक्षो हेतुवादं न मन्यते । ततस्तं स्थापयन्नाहकुपक्षकारका ! हेतु-वादेन बवताधुना । प्राप्ता ह्यागमता हेतु-वावाऽप्तेरागमैरपि ॥१॥ व्याख्या-हे कुपक्षकारका ! अधुना-साम्प्रतं यूयं मया समं हेतुवादेन वदता, हि-यस्मात् कारणात्, आगमैरपि हेतुवादाऽऽप्ते:हेतुवादाडगीकारात् । आगमता प्राप्ता-आगमत्वं लब्धं, जिनागमानामपि हेतुवादयुक्तत्वादागमत्वमित्यर्थः । हेतुवादरहितानां लौकिकाऽऽगमानामनागमत्वात् ॥१॥ लोकवादे श्रितो हेतु-युष्माभिरपि पण्णितः । स्वविचारे निषिद्धः किं ?, निःशूकल्लौकिकरिव ॥२॥ व्याख्या-स्पष्टः । नवरं-यदाहुलौकिकाः -पुराणं मानवो धर्मस्साङगो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, हन्तव्यानि न हेतुभिः ॥१॥ प्रत्युक्तं प्रोच्यते-अस्ति वक्तव्यता काचिद्येनेदं न विचार्यते। निर्दोष काञ्चनं चेत्तत्परीक्षाया बिभेति किम् ?॥२॥ पूर्वार्द्धन लौकिकोक्तम् । उत्तरार्द्धन प्रत्युक्तं च प्रोच्यते हेतुकान् बकवृत्तींश्च, वाङमात्रेणापि नार्चयेत् । हेतोः कुतोप्यसौ वाक् ते, हेतुकोऽभूस्त्वमप्यतः ॥१॥ अस्य व्याख्या-पूर्वार्द्ध स्पष्टम् । 'हेतो रित्यादि । अहो लौकिक ! कुतोऽपि हेतोः - कारणात् । असौ पूर्वार्दोक्ता, ते-तव वाग्-वाणी त्वयापि केनचित्कारणेन इदं पूर्वार्द्धमुक्तमित्यर्थः । अतो-अस्मात् कारणात् त्वमपि हेतूकोऽभूः । 'यच्चिन्त्यते परस्मिन् तत्समागच्छति गृहे' इति लोकाभाणकादपि तवैवाननीयत्वं जज्ञे इत्यर्थः ॥२॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy