SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे ४० wwwwwww भवान्तर्भवस्य मध्ये भवस्स्यात् । ही इति खेदे, केवलिनस्सप्तधातुपरावर्तेन वज्रमयशरीरभवनादेकस्य भवस्य मध्ये द्वितीयभवभवनाऽऽपत्तेस्सिद्धान्तविरोधतस्तव वचनमलीकमेवेति ॥३४॥ विभोरपि भवस्थस्य, सप्रतिद्वन्दि यत् सुखम् । सातासाते अपि स्तस्तद्, राज्यकण्टकवद् युते ॥३५॥ व्याख्या-विभोरपि-केवलज्ञानिनोपि, भवस्थस्य-संसारस्थितस्य, सुखं सप्रतिद्वन्द्वि विद्यते यत्-यस्मात् कारणात् । यदि विभोस्सुखं ततो दुःखेनावश्यं भवितव्यमेव । संसारे छायादेरातपादिवत् । समस्तवस्तूनां प्रतिद्वन्द्वि भवनात्ततो विभोस्सातासाते स्तः - सातवेदनीयासातवेदनीये अपि विद्यते इति सिद्धम् । किंविशिष्टे ? राज्यकण्टकवद्युते-राज्यकण्टकाविव मिलिते । यथा राज्ये "चौरचरटादिभिः कण्टकरवश्यं भवितव्यम् । तथा सातप्रतिस्पद्धिना असातेनाऽवश्यं भवितव्यम् ॥३५॥ प्रायोऽस्याल्पमसातं तु, न विरुद्धा क्षुधापि तत् । सर्वथाप्यसुखाभावे, मोक्षाभावः प्रसज्यते ॥३६॥ व्याख्या-तु-पुनः, प्रतापाद्यस्य भूपतेररुपकण्टकवत् अस्य केवलिनः प्रायो-बाहुल्येन, असातमल्पं भवेत् । ततः क्षुधापि न विरुद्धा, क्षुधाया अपि असातवेदनीयत्वात् । क्षुधामात्रं दुःखं केवलिनो भवत्येव । यतस्सर्वथाप्यसुखाभावे-दुःखस्याभवने मोक्षाभावो-मुक्तेरभवनं केवलिनः प्रसज्येत । समग्रदुःखक्षयस्यैव मोक्षत्वात् । यदि केवलिनो भवस्थस्य सतस्समग्रदुःखक्षयस्ततस्स एव मोक्षः, संसारपृथक्मोक्षस्याभवनात् । अतोऽल्पस्य दुःखस्य सिद्धी क्षुधासिद्धे«क्तिसिद्धिरिति ॥३६॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy