________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.६.२०]
ग्टह्य सूत्रे।
२५५
बयाणामपि प्रदानानां होममन्त्रमाह । हराय *मृडाय शवाय शिवाय भवाय महादेवायाग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहेति ॥ १७॥ द्वादशनामको मन्त्रः ॥ १७॥
षभिर्वोत्तरैः ॥ १८॥ उग्रायेत्यादिषट्नामको वा मन्त्रो भवेदित्यर्थः ।। १८ ॥
रुद्राय स्वाहेति वा ॥ १६ ॥ अयमेकनामको वा भवेदित्यर्थः ॥ १८ ॥
चतसृषु चतस्रषु कुशवनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र पूर्वस्यां दिशि सेनास्ताभ्य एतं नमस्ते अस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनं ॥२०॥
वपास्थालीपाकावदानहोमपर्यन्तं कृत्वा विकृतः प्रागेकैकस्यां दिशि चतस्रश्चतस्रः कुशसूना निधाय तासु चरुशेषेण मांसशेषेण च बलिं हरेत् । यास्ते रुद्र पूर्वस्यां दिशोति प्रतिदिशं त्वादेशनकार्य यास्ते रुद्र दक्षिणस्यां दिशि यास्ते रुद्र प्रतीच्यां दिशि यास्ते रुद्रोदीच्या दिशोति। दर्भस्तम्बैस्तृणैश्च कल्पवग्रथित्वा सर्वेषामग्रं ग्टहीत्वा एकीकृत्य ग्रथिताः कुश सुना उच्यन्ते ॥२०॥
* म्टदाय इति मुद्रि (पु. पाठः ।
For Private and Personal Use Only