________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ४. १२]
ग्रह्यसूत्रे।
२१५
यत्रोदकमवहद्भवति. तत्प्राप्य सकृदन्मज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम च गृहीत्वोत्तोयान्यानि वासांसि परिधाय सकृदेनान्यापीयोदग्दशानि विसृज्यासतानक्षत्रदर्शनात्॥१०॥
ततो यत्रोदकमवहत् स्थिरम्भवति तत्प्रतिगच्छन्ति। तत्प्राप्य मनिमज्जन्ति सकृदवगाहन्त इत्यर्थः। तत एकाञ्जलिं उत्सजन्ति समानोदकाः, सर्व एककमजलिमुत्सृजेयुरित्यर्थः। पुरुषाः स्त्रियश्च। तस्य गोवन्नाम ग्टहीत्वा प्रेतस्य गोचं नाम च ग्टहीत्वा काश्यपगोत्र देवदत्त एतत्ते उदकमित्येवमुक्का सिञ्चन्ति दक्षिणामुखाः। श्रयुग्मा दक्षिणामुखा इति स्मृतेः। निनयनदेशस्तु मतितोऽवगन्तव्यः । तत उदकादुत्तीर्यान्यानि वासांसि परिदध्युः । ततः सकृदाईणि पीडयन्ति अभ्यास न कार्यः। तत उदगग्राणि वागांसि विसृजन्ति शोषणार्थ। ततस्तत्रैवासते अानक्षत्रदर्शनात् । ततो नक्षत्रेषु दृश्यमानेषु ग्रहं प्रविशेयः सर्वेऽमात्याः ॥ १० ॥
आदित्यस्य वादृश्यमाने प्रविशेयुः ॥११॥ श्रादित्यस्य वा दृश्यमाने कस्मिंश्चिन्मण्डले रमिवर्जिते प्रविशेरन् । अस्मिन् पक्षे श्रामण्डलदर्शनादासते ॥ ११॥
कनिष्ठप्रथमा ज्येष्ठजघन्याः॥१२॥
प्रविशेञ्जः। उभयचनमानुपूर्वी सिध्यर्थं ॥ १२ ॥
For Private and Personal Use Only