________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
याश्वलायनीये
[४. ४.६]
प्रेहि पथिभिः पूरिति समानं प्रागुतनानुद्रवणेन प्रेहि प्रेहि पथिभिरिति पञ्चानां बतीयमुद्धरेत् मैनमग्ने विदहो इति षट, पूषा त्वेतच्यावयतु प्रविद्वानिति चतस्त्र, उपसर्प चतस्रः, सोम एकेभ्य इति पञ्च, उरूणसावसु पेति चतुर्विंशति ऋचः अनुट्रवण उक्ताः अत्रापि तावतोभिरनुमन्त्र यतेत्यर्थः ॥ ६ ॥
स एवंविदा दह्यमानः सहैव धूमेन स्वर्गलोकमतीति ह विज्ञायते ॥७॥
प्रशंसेयं। सा च विदुषा कर्म कर्त्तव्यमिति ज्ञापयितुं। न्या'यविदश्च ज्ञात्वा चानुष्ठानमित्याहुः ॥ ७ ॥
उत्तरपुरस्तादाहवनीयस्य जानुमात्रङ्गत खात्वा वकांशीपालमित्यवधापयेत्तता ह वा एष निष्कम्य सहैव धुमेन स्वर्ग लोकमेतीति ह विज्ञायते॥८॥
जानुमात्रे गर्ने एतावत्कालमातिवाहिकं शरीरमास्थायाहितानिः संस्कारं प्रतीक्षते ततोऽस्मिल्लोके दग्धः सन् अवटानिष्कम्य धूमेन मह स्वर्गमेतीति श्रूयते ॥ ८ ॥
इमे जीवा वि मृतैरावसन्निति सव्याहतो व्रजन्त्यनवेक्ष्यमाणाः ॥६॥
अथ दूममियचं की जपित्वा ततः सर्व सव्यावृतो भूत्वा गच्छेयुः पृष्ठतोनीक्षमाणाः॥८॥
For Private and Personal Use Only