________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
चाश्वलायनीये
[१. २४.६] विष्टरः पाद्यमर्थ्यमाचमनीयं मधुपक्का गौरित्येतेषां चिस्त्रिरेकैकं वेदयन्ते ॥ ७॥
विष्टर इत्यासनं। पाद्यार्थमार्थमाचमनार्थचोदकं तथोक्तं । एतेषामिति वचनं एतेषामेव त्रिनिवेदनं यथा स्यात् भोजनस्य माभूदिति । भोजनञ्च देयमिति वक्ष्यामः । ऋत्विजां मधुपर्कदाने दे गती मम्भवतः. पदार्थानुसमयः काण्डानुसमय इति । तत्र पदार्थानुसमयो नाम सर्वेषां वरणक्रमेण विटरन्दत्वा ततः पाद्यन्ततोऽर्थमिति । काण्डानुममयो नाम एकस्यैव विष्टरादिगोनिवेदनान्तं समाप्य ततोऽन्यस्य *सर्वन्ततोऽन्यस्येति ॥ ७ ॥
अथ ग्रहीतुः कर्माह।
अहं वर्ष सजातानां विद्युतामिव सूर्यः। इदन्तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत्. आक्रम्य वा॥८॥
पिझ्यामाक्रम्य वा विष्टरी । एतयोर्विकल्पः ॥ ८ ॥
पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥६॥
पश्चात्मव्यं कुतः. अग्रवचनात् ॥ ८॥
* सर्वमिति अधिकपाठः सं० प० वर्त्तते यादर्णे तु नास्ति । + पड़यां विटरमाक्रम्य वेति सं० पु. ।
For Private and Personal Use Only