________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
१. १६. ५]
षष्ठे मास्यन्नप्राशनं ॥१॥
जन्मप्रति षष्ठे मामे न गर्भप्रभृति. जाताधिकारात्. तत्रानप्राशनं नाम कर्म कार्यम् ॥ १ ॥
आजमन्नाद्यकामः॥२॥
अजस्ये दमाज। तैत्तिरसाहचर्यान्मांसस्यात्र ग्रहणं न क्षीरदधिचूतानाम् ॥ २॥
तैत्तिरं ब्रह्मवर्चसकामः ॥३॥ तित्तिरेरिदं तैत्तिरं । अाजतैत्तिरयोर्यञ्जकत्वेनोपदेशो नानवन. तथा लोके प्रसिद्धृत्वात् । तेनानमपि सिद्धम् ॥ ३ ॥
घृतोदनं तेजस्कामः ॥४॥ घृतसंस्कृत ओदनो घृतोदनः। कुतः. ओदनग्रहणात्। यदि हि घृतमित्रोऽभिप्रेतः स्यात् घृतं तेजस्काम इत्येवावच्यत्। ततश्च पूर्ववयञ्जकत्वेनान्नमपि सिध्यत्येव । *स्ते नेदीयसि चुतमेके कृते घृतमंस्कृतो भवति. नतु घृते श्रपणं. विनेदानुपपत्तेः ॥ ४ ॥
दधिमधुरतमिश्रमन्नं प्राशयेत्. अन्नपतेऽवस्य ना देशनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊर्जन्नो धेहि दिपदे चतुष्पद इति ॥५॥
* सृतोदनेऽल्यो यसि इति यादर्णे शुद्ध पाठः ।
For Private and Personal Use Only