SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १०. २] गृह्यसूत्रे । उभयत्र सायं प्रातश्चेत्यर्थः । श्रनिं परिसमूह्य परिस्तीर्य पर्युच्य होमद्रव्यस्याऽग्निहोचवत्तूष्णों संस्कारं कृत्वा ततोऽग्नये स्वाहेति जुहे - ति. ततः प्रजापतय इति चतुर्य्यन्तं शब्दरूपं ध्यात्वा स्वाहेत्युपका द्वितीयाहुतिं जुहोति । ततः परिसमूहनपर्युक्षणे । एवं सायं । प्रातर्हेमे तु पूर्वमन्त्रस्थाने सूर्याय स्वाहा इति विशेषः ॥ ८ ॥ इति प्रथमे नवमी कण्डिका ॥ ० ॥ ४३ अथ पार्वणस्थालीपाकः ॥ १ ॥ उक्तोऽर्थः । पर्वणि भवः पार्वणः । स्थालीपाक इति कर्मनामधेयं । दर्शपूर्णमासातिदेशात् काले सिद्धे पार्वणवचनं पाणिग्रहणाद्यहरहः क्रियाशङ्कानिवृत्त्यर्थं । विवाहादनन्तरं या पौर्णमासी तस्यामस्य प्रथमप्रारम्भः। प्रतिपद्यापासनं हत्वा ततः परिममूहनादि प्रारभेत ॥ १ ॥ तस्य दर्शपूर्णमासाभ्यामुपवासः ॥ २ ॥ तस्य ग्रहणं नियमार्थं । तस्यैवापवासेो यथा स्यात् तदतिदिष्टानां माभूदिति. दर्शपूर्णमासाविति कर्मनामधेयम् । उपवास इत्येकभोजनं । सर्पिर्मिश्रं दधिमिश्रं श्रचारलवणमशितव्यमित्यादयश्च नियमा लक्ष्यन्ते । तस्य ताभ्यामुपवासेो व्याख्यात इत्यर्थः ॥ २ ॥ G 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy