SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३ प्र. ६ का. ग्टह्यसूत्रम्। પૂર जुरक्षरार्थः । अत्र किन्त्रिबक्तव्यमस्ति । पश्चादग्नेरिति करणमग्न्यागारनियमार्थम् । तेन, अग्न्यागार एव स्वस्तरास्तरणं कर्त्तव्यम् । एवञ्च, अग्न्युपदेशस्थान्यार्थवादहोमकोऽयम्-दूति केचित् । पुंसवनादिवत्तु अयमपि सहोमक एव स्यात्-इति अपरे। प्राग्वमन्तादुदगयने यत् पुण्यमह स्तत्र पूर्वमन्वाहार्यश्राद्धं कृत्वा सायं बलिहरणान्ते नित्यकर्मणि कृते, स्वस्तरास्तरणं करणीयम् । तथा च ग्टह्यान्तरम् । “प्राग्वमन्तादुदगयने पुण्येऽहि सायं स्वस्तरमुदगग्रमास्तीर्य"-इत्यादि । अस्मद्ह्यकारपरिभाषामिद्धमुदगयनादिमात्रं वा खस्तरारोहणस्य कालः स्यात् । केचितु,-"ऊई स्वस्तरशायो स्यात्" इति वचनमालोचनमात्रेण पश्यन्तः, आग्रहायण्यङ्गत्वं स्वस्तरारोहणस्य मन्यमानाः, तत्रैवावमरे स्वस्तरास्तरणम्-दूच्छन्ति । तदमङ्गतम्। ऊईमित्यनेनाग्रहायण्या जीवमात्रस्यावगमात्। “पारिभाषिक एव स्थात् कालो गोवाजियज्ञयोः। अन्यस्यानुपदेशात्तु स्वस्तरारोहणस्य च" । इति परिशिष्टवचनविरोधाच्च ॥०॥ १२ ॥०॥ उदगग्रैस्तृणैः ॥ १३॥ स्वस्तरमास्तारयेदिति वर्तते ।।०॥ १३ ॥०॥ उदकप्रवणम्॥१४॥ उत्तरस्यां दिशि क्रमनिम्नं स्वस्तरमास्तारयेत् ॥०॥१४॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy